________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथाः
व्यवच्छेदे सति अयोगिकेवलिनः सिद्धस्य वा भूयोऽपि बन्धः सम्भवतीति एषोऽवक्तव्यबन्ध उत्तरप्रकृतिष्वेव भवति, तं चोत्तरप्रकृतिषु यथास्थानं दर्शयिष्यामः ॥ २३ ॥
उक्त मूलप्रकृतीरधिकृत्य भूयस्कारादिवन्धाः | अधुनोत्तरप्रकृतीः प्रतीत्य तान् प्रचिकटयिषुराह-
२४
नवच्च दंसे दुदु, ति दु मोहे दु इगवीस सतरस । तेरस नव पण चउ नि दु, इक्की नव अट्ठ दस दुन्नि ||२४||
"दसि" त्ति भामा सत्यभामेति न्यायात् पदैकदेशेऽपि पदसमुदायोपचार इति दर्शनावरणोतरप्रकृतीनां त्रीणि बन्धस्थानानि । कथम् ? इत्याह- “नव छ च्चउ" त्ति नवविधं बन्धस्थानं षड्विधं बन्धस्थानं चतुर्विधं बन्धस्थानं चेति । तत्र निद्रा-निद्रानिद्रा प्रचलाप्रचलाप्रचला स्त्यानर्द्धिलक्षणं निद्रापञ्चकम् चक्षुदर्शनावरणाऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण- केवलदर्शनावरणचतुष्टयं चेत्येतन्नवविधम्, एतच्च मिथ्यादृष्टि - सास्वादन गुणस्थानकं यावद् बध्यते । ततः परं स्त्यानद्धित्रिकं निद्रानिद्रा- प्रचलाप्रचला - स्त्यानद्धिरूपं व्यवच्छिद्यते, अतः सम्यग्मिथ्यादृष्टिगुणस्थानकादिषु षड्विधं बघ्नतः प्रथमसमये प्रथमोऽल्पतरबन्धः, एतच्च षड्विधमपूर्वकरणप्रथमसप्तभागं यावद् बध्नाति । ततः परं निद्रा - प्रचलाबन्धव्यवच्छेदे सति शेषं चतुर्विधं बध्नत आद्यसमये द्वितीयोऽल्पतरबन्धः, एतच्चतुर्विधं सूक्ष्मसम्पराय गुणस्थानकं यावद् बध्यते । ततः कस्यचित् पुनरपि प्रतिपत्य षड्विधं बध्नतः प्रथमसमये प्रथमो भूयस्कारबन्धः । ततोऽपि प्रतिपत्य नवविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धः । अत्र च नवविधादिषु त्रिष्वपि बन्धस्थानेषु द्वितीयादिषु समयेषु तदेव बघ्नतोऽवस्थितबन्ध इति त्रयोऽवस्थितबन्धाः । यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकृतीनां सर्वथाऽबन्धको भूत्वा पुनरद्वाक्षयेहैव प्रतिपत्य चतुर्विधं बध्नाति तदा प्रथमसमयेऽवक्तव्यबन्धो भूयस्काराद्युचितलक्षणायोगाद् भूयस्कारादिभिर्विकल्पैवक्तु ं न शक्यत इत्यवक्तव्यः, द्वितीयादिसमयेषु त्वत्राप्यवस्थितबन्धः । यदा पुनरुपशान्तमोहावस्थायामेवायुः क्षयेणानुत्तरसुरेषूत्पद्यते तदा तत्र प्रथमसमय एव षड्विधं वघ्नतो द्वितीयो - ऽवक्तव्यबन्धः, द्वितीयादिसमं येषु त्ववस्थितबन्धः । तदेवमत्र द्वौ भूयस्कारबन्धौ द्वावल्पतरबन्धौ । अवस्थितबन्धास्तु गणनया षड् भवन्तोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदास्त्रय एव भवन्ति । अवक्तव्यबन्धौ द्वौ इति । एतदेवाह - "दु दु ति दु" ति द्वौ भूयस्कारबन्धौ द्वावल्पतरबन्धौ त्रयोऽवस्थितत्रन्धाः द्वाक्र्क्तव्यबन्धाविति । भावार्थः पूर्वोक्त एवेति ।
-
,
उक्ता दर्शनावरणोत्तर प्रकृतिषु भूयस्कारादिवन्धाः । इदानीमेतानेव मोहनीयोत्तरप्रकृतिषु विचिन्तयन्नाह - "मोहे दुइगवीस सत्तरस" इत्यादि । 'मोहे' मोहनीयकर्मणि दश बन्धस्था