________________
४६-४८ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
५३
बध्नतः सादिस्तद्बन्धः, तत्स्थानमप्राप्तपूर्वस्यानादिः, ध्रुवोऽभव्यानाम्, अध्रुवो भव्यानामिति सर्वमिह पूर्ववदेव भावनीयम् । एतासामेव प्रकृतीनां "सेसतिगि साइअधुवु" त्ति 'शेषत्रिके' जघ - न्योत्कृष्टा ऽनुत्कृष्टलक्षणे सादिरध्रुवश्च द्विविधो भवति । तथाहि संज्वलनचतुष्टयस्य क्षपकानिवृत्तिवादरगुणस्थाने आत्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यो बन्धो ज्ञानावरणपञ्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां सूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यः । स च तत्प्रथमतया बध्यमानत्वात् सादिः, तत ऊर्ध्वं न भवतीत्यध्रुवः । उत्कृष्टा ऽनुत्कृष्टेष्वप्यारोहणावतरणे कुर्वतां जन्तूनां साद्यध्रुवत्वं तथैव भावनीयमिति ।
" तह चउहा सेसपयडीणं" ति 'शेषप्रकृतीनां' भणिताष्टादशप्रकृतिभ्य उद्धरितानां द्वयु - त्तरशतसङ्ख्यानां प्रकृतीनां चतुर्धा उत्कृष्टा ऽनुत्कृष्ट- जघन्याऽजघन्यलक्षणञ्चतुर्विकल्पः “ तह" त्तिसादिरध्रुवश्च भवति । तथाहि – निद्रापञ्चक - मिथ्यात्व - प्रथमद्वादशकपाय-भय-जुगुप्सातैजस-कार्मण-वर्णादिचतुष्का-ऽगुरुलघुउपघात-निर्माणलक्षणानामेकोनत्रिंशतः प्रकृतीनां सर्वविशुद्धवादरपर्याप्तै केन्द्रियो जघन्यस्थितिबन्धं विदधाति ततोऽन्तमुहूर्त संक्लिष्टो भूत्वा अजधन्यबन्धं करोति, ततस्तत्रैव भवे भवान्तरे वा विशुद्धिमासाद्य पुनरपि स एव जघन्यबन्धं निर्मापयतीत्येवं जघन्याऽजघन्ययोः परावृत्तिर्भवतीति द्वावप्येतौ जघन्याऽजघन्यौ सादि-अध्रुवौ भवतः । उत्कृष्टं बन्धं पुनरेतासां सर्वसंक्लिष्टपञ्चेन्द्रियो विदधाति, अन्तर्मुहूर्ताच्च पुनरपि अनुत्कृष्टबन्धं विरचयति, ततः पुनरपि कदाचिदुत्कृष्टमित्येवं परावृत्तिवशत एतावपि सादि - अभ्रुवौ भवतः । शेषाणामध्रुवबन्धिनीना मौदारिकद्विक वैक्रियद्विका--ऽऽहारकद्विक-संस्थानषट्क-संहननषट्क-जातिपञ्चक-गतिचतुष्क- विहायोगतिद्विका-ऽऽनुपूर्वीचतुष्टय- जिननाम उच्छ्वासनाम-उद्योत नामाऽऽतपनाम - पराघात - त्रसदशक - स्थावर- दशक उच्चै गोत्र- नीच्चैर्गोत्र - साता-सातवेदनीयहास्य--रति- अरति-शोक-वेदत्रिका ssयुश्चतुष्टयलक्षणानां त्रिसप्ततिप्रकृतीनां जघन्यादिस्थितिबन्धः सर्वोऽप्यध्रुवबन्धित्वादेव सादिरभ्रुवश्च ेति ॥४७॥
निरूपिताः स्थितिबन्धे साद्यादिभङ्गाः । अधुना स्थितिमेव सामान्यतो गुणस्थानकेषु चिन्तयन्नाह—
साणाइअपुव्वते, अयरंतोकोडिकोडिओ नऽहिगो ।
बंधो न हु होणो न य, मिच्छे भव्वियरसन्निमि ॥ ४८ ॥
"
प्राकृतत्वान्निर्देशस्य सास्वादनमादौ यस्य तत् सास्वादनादि, अपूर्वकरणमन्ते यस्य गुणस्थानककदम्बकस्य तद् अपूर्वान्तम् सास्वादनादि च तद् अपूर्वान्तं च सास्वादनाद्यपूर्वान्तं तस्मिन् सास्वादनाद्यपूर्वान्ते गुणस्थानक कदम्बकेऽतराणां - सागरोपमाणाम् अन्तर् मध्ये कोटीकोटी अतरान्तःकोटीकोटी तस्या अतरान्तःकोटीकोटीतः, आद्यादेराकृतिगणत्वात् तस्प्रत्ययः, 'न'