________________
२०-२१ ]
शतकनामा पञ्चमः कर्मग्रन्थः। " 'नेरइए नेरइएसु उववज्जइ" (शत० ४ उद्दे० ९) इति । तस्मिन् भवे-नारकतिर्यग्नरामररूप एव विपाक:-उदयो विद्यते येषां तानि भवविपाकीनि । तथाहि-यथासम्भवं पूर्वभवे बद्धानि आगामिनि भवे विपच्यन्त इति भावः । ननु यथाऽऽयुषां देवादिभवेऽवश्यं विपाको भवति एवं गतीनामपि, अतस्ता अपि भवविपाकिन्यः प्राप्नुवन्ति, अत्रोच्यते-आयुर्यद् यस्य भवस्य योग्यं निबद्धं तत् तस्मिन्नेव भवे वेद्यत इत्यायुषो भवविपाकदानाद् भवधिपाकित्वम् , गतयस्तु विभिन्नभवयोग्या निबद्धा अप्येकस्मिन्नपि भवे सर्वाः सङ्क्रमेण संवेद्यन्ते । तथाहि-मोक्षगामिनोऽशेषा गतयो मनुष्यभवे क्षयं यान्ति, अतो भवं प्रति गतीनां नैयत्याभावान्न भवविपाकिन्यः, किन्तु जीवविपाकिन्य एवेति ॥२०॥ उक्ता जीवविपाका भवविपाकाच प्रकृतयः । इदानीं पुद्गलविपाकिनीः प्रकृतीः प्रचिकटयिषुराह
नामधुवोदय चउतणुवघायसाहारणियर जोयतिगं।
पुग्गलविवागि धंधो, पयइठिइरसपएस त्ति ।।२१।। नाम्नः-नामकर्मणो ध्रुवोदयाः-नित्योदया नामध्रुवोदया द्वादश प्रकृतयः, तद्यथा-निर्माणस्थिरा-ऽस्थिरा-ऽगुरुलघु-शुभा-ऽशुभ-तैजस कार्मण-वर्णचतुष्कमिति। "चउतणु" ति तनुशब्देनोपलक्षितं चतुष्कं "तणुवंगागिइसंघयण" (गा०३) इति गाथावयवेन प्रतिपादितं तनुचतुष्कम् । तत्र तैजस-कार्मणयोध्रुवोदयमध्ये पठितत्वादिह तनवः-औदारिक-चैक्रियाऽऽहारकलक्षणास्तिस्रः परिगृह्यन्ते, उपाङ्गानि त्रीणि, आकृतयः-संस्थानानि षट् , संहननानि षट् , तदेवं तनुचतुष्कशब्देन एता अष्टादश प्रकृतयो गृह्यन्ते । उपघातं साधारणम् 'इतरच' तत्प्रतिपक्षभूतं प्रत्येक "जोयतिगं" ति "उज्जोयायवपरघा" (गा०३) इति वचनाद् उद्योता.ऽऽतप-पराघातलक्षणमिति । एताः षट्त्रिंशत् प्रकृतयः "पुग्गलविवागि" त्ति पुद्गलेषु-शरीरतया परिणतेषु परमाणुषु विपाक:उदयो यासां ताः पुद्गल विपाकिन्यः, शरीरपुद्गलेष्वेवात्मीयाँ शक्ति दर्शयन्तीत्यर्थः । तथाहिनिर्माण-स्थिराद्युदयात् शरीरतया परीणतानां पुद्गलानामङ्गप्रत्यङ्गादिनियमनं दन्तास्थ्यादीनां स्थिरत्वं जिह्वादीनामस्थिरत्वं शिरःप्रभृतीनां शुभत्वं पादादीनामशुभत्वमित्यादि, तनूदयात् शरीरतया पुद्गला एव / परिणमन्ति, अङ्गोपाङ्गोदयाच्च तेषां शिरः-ग्रीवाद्यवयव विभागो जायते, आकृतिनामोदयात् तेम्वेवाऽऽकारविशेषः सम्पनीपद्यते, संहननोदयात् तेषामेव वज्रऋषभनाराचादितया विशिष्टा परिणतिर्भवति, उपघात-साधारण-प्रत्येक-उद्योता-ऽऽतपादीनामपि सर्वेषां शरीरपुद्गलेष्वेव स्वविपाकस्य दर्शनात् सुप्रतीतमेवासां पुद्गलविपाकित्वमिति ।
१ नैरविको नैरयिकेषु उत्पद्यते॥