________________
देवेन्द्रसूरविरचितः स्वोपज्ञटीकोपतः
[गाथा घणघाइ दुगोय जिणा, तसियरतिग सुभगदुभगवउ सासं ।
जाइतिग जियविवागा, आऊ चउरो भवविवागा ॥२०॥ ४ घनघातिन्यः प्रकृतयः सप्तचत्वारिंशत् , तद्यथा--ज्ञानावरणं पञ्चधा, दर्शनावरणं नवधा, मोहनीयमष्टाविंशतिधा, अन्तरायं पञ्चधेति । “दुगोय" त्ति “गोयवेयणियं" (गा० ३ ) इति वचनाद् ‘गोत्रद्विकं' गोत्र वेदनीयरूपम् । तत्र गोत्रम् उच्चैगोत्र-नीचेोत्रभेदाद् द्वेधा, वेदनीयं साता ऽसातभेदेन द्विभेदमिति दुगोयशब्देन प्रकृतिचतुष्टयं गृह्यते । जीननाम, "तसियरतिग" त्ति त्रिकशब्दस्य प्रत्येकं सम्बन्धात् त्रसत्रिक-त्रस-बादर पर्याप्तकरूपम् , इतरत्रिकं स्थावरत्रिकं स्थावर-सूक्ष्मा-ऽपर्याप्तकलक्षणम् । “सुभगदुभगचउ" ति चतुःशब्दस्य प्रत्येकं सम्बन्धात् सुभगचतुष्क--सुभग-सुस्वरा-ऽऽदेय-यशःकीर्तिरूपम् 'दुर्भगचतुष्क--दुर्भग-दुःस्वराऽनादेया-ऽयशः-- कीर्तिलक्षणम् । “सासं" त्ति उच्छ्वासं 'जाइतिग" ति जातिशब्देनोपलक्षितं त्रिकं “जाइगइखगई" (गा०३) इति गाथावयवोक्तं जातित्रिकम् । तत्र जातयः--एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाख्याः पञ्च, गतयः-सुर-नर-तियंग-नरकरूपाश्चतस्त्रः, खगतिः-प्रशस्ता-ऽप्रशस्तविहायोगतिभेदेन द्विधा, इत्येवं जातित्रिकशब्देन एकादश प्रकृतयो गृह्यन्त इति । एता अष्टासप्ततिप्रकृतयो जीव एव विपाकः-स्वशक्तिदर्शनलक्षणो विद्यते यासां ता जीवविपाका ज्ञातव्याः। तथाहि-पञ्चविधज्ञानावरणोदयाद् जीव एवाऽज्ञानी स्याद् न पुनः शरीर-पुद्गलादिषु तत्कृतः कश्चिदुपघातोऽनुग्रहो वाऽस्तीति, एवं नवविधदर्शनावरणोदयाद् जीव एव अदर्शनी भवति, साता-ऽसातोदयाद् जीव एव सुखी दुःखी वा सम्पद्यते, अष्टाविंशतिविधमोहनीयोदयाद् जीव एव अदर्शनी अचारित्री वा जायते, पश्चविधान्तरायोदयाद् जीव एव न दानादि क पारयति, उच्चैर्गोत्र-नीचैर्गोत्र-गतिचतुष्क-जातिपञ्चक-विहायोगतिद्विक-जिन बस-चादर-पर्यासक-स्थावर-सूक्ष्मा-ऽपर्याप्तक-सुभगचतुष्क-दुर्भगचतुष्क-उच्छ्वासनामोदयाद् जीव एव तं तं भावमनुभवति न शरीरपुद्गला इति । एताः सर्वा अपि जीवविपाकिन्य इति । या अपि क्षेत्रविपाका उक्ताः, याश्च भवविपाकाः पुद्गल विपाकाश्च वक्ष्यन्ते, ता अपि परमार्थतो नीवविपाका एव; यतो जीवस्यैव पारम्पर्येणानुग्रहमुपघातं च कुर्वन्ति, केवलं मुख्यतया क्षेत्र भव-पुद्गलेषु तत्तद्विपाकस्य विवक्षितत्वात् तत्तद्विपाका उच्यन्त इति । 'आयूष चत्वारि' नारकायुष्कादिनि, पुस्त्वं च प्राकृतवशात् , प्राकृत्ते हि लिङ्गमतन्त्रमेव, यदवादि प्रवादिसर्पदर्पसौपर्णेयैः श्रीहेमचन्द्रसूरिपादः स्वप्राकृतलक्षणे-"लिङ्गमसन्त्रम् " (सिद्ध० ८-४-४४५) इति । भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः-नारकादिपर्यायः, स च पूर्वायुर्विच्छेदे विग्रहगतेरप्यारभ्य वेदितव्यः, यदाह भगवान् श्रीसुधर्मस्वामी भगवत्या