________________
१९
१७१९]
शतकनामा पञ्चमः कर्मग्रन्थः ।
( गा०३) इति वचनाद् उद्योता ऽऽतपाख्यम्, गोत्रद्विकम् - " गोयवेयणियं " ( गा० ३) इति वचनाद् गोत्र वेदनीयस्वरूपम् । तत्र गोत्रम् उच्चैमंत्रि - नीचैर्गोत्र भेदाद् द्विधा, साता-सातभेदाद् वेदनीयaft द्विधा इत्येताश्चतस्रः प्रकृतयो गोत्रद्विकशब्देन गृह्यन्ते, निद्रापञ्चकं सविंशतिः - त्रस दशक-स्थावरदशकरूपा, आयूंषि चत्वारि इति । एता एकनवतिप्रकृतयः " परित्त" त्ति प्राकृतत्वात् 'परिवृत्ताः' परावर्तमाना भवन्तीति शेषः । तत्र षोडश कपाया निद्रापञ्चकं च यद्यप्येता. एकविंशतिप्रकृतयो ध्रुवबन्धित्वाद् बन्धं प्रति परोपरोधं न कुर्वन्ति तथापि स्वोदये स्वजातीयप्रकत्युदयनिरोधात् परावर्तमाना भवन्ति । स्थिर - शुभा - स्थिरा - शुभप्रकृतयश्चतस्रश्च यद्यप्युदयं प्रति न विरुद्धास्तथापि बन्धं प्रति परावर्तमानाः, शेषाश्च गतिचतुष्क-जातिपञ्चक-शरीरत्रिक अङ्गोपाङ्गत्रिक संस्थानपट्क - संहननषट्का - ऽऽनुपूर्वी चतुष्का - ऽऽतप उद्योत - विहायोगतिद्विक त्रसादिषोडशक- वेदत्रिक- हास्य-रति- अरति शोकयुगलद्वय - साता ऽसात उच्च-नीचा ऽऽयुश्चतुष्टयलक्षणाः षट्षष्टिः प्रकृतयो बन्धोदयाभ्यामपि परस्परं विरुद्धा अतः परावर्तमाना इति । उक्ताः परावर्त - मानप्रकृतयः, तद्भणनेन च समर्थितं परावर्तमानाऽपरावर्तमान प्रकृतिद्वारद्वयम् । तदेवं समर्थितं "धुवबंधोदय' सत्ताघाइपुन परियत्ता सेयर " ( गा० १) इति मूलद्वारगाथो पन्यस्तं द्वाद्वादशकम् । सम्प्रति यदुक्तं "चउह विवागा वुच्छं" ( गा० १) इति तद् विभणिषुः / प्रथमं क्षेत्रविपाकाः प्रकृतीराह – “ खित्त विवागाणुपुत्रीओ" त्ति क्षेत्रम् - आकाशं तत्रैव विपाकः - उदयो यासां ताः क्षेत्रविपाकाः, आनुपूर्व्यश्चतस्रः नरक - तिर्यग् नरा-मरानुपूर्वीलक्षणाः, यतस्तासां चतसृणामपि विग्रहगतावेवोदयो भवतीति । उक्तं च बृहत्कर्मविपाके -
" निरयाउयस्स उदए, नरए वक्केण गच्छमाणस्स । निरयाणुपुव्वियाए, तहिँ उदओ अन्नहिं नत्थि ॥ एवं तिरिमणुदेवे, तेसु वि वक्केण गच्छमाणस्स । तेसिमणुपुत्रियाणं, तर्हि उदओ अन्नहिं नत्थि || ( गा० १२२ - १२३)
ननु विग्रहगत्यभावेऽप्यानुपूर्वीणामुदयः सङ्क्रमकरणेन विद्यते, अतः कथं क्षेत्रविपाकिन्यस्ता न गतिवद् जीवविपाकिन्यः १ इति अत्रोच्यते - विद्यमानेऽपि सङ्क्रमे यथा तासां क्षेत्र प्राधान्येन स्वकीयो विपाकोदयो न तथाऽन्यासामतः क्षेत्रविपाकिन्य एवेति ॥ १६ ॥
उक्ताः क्षेत्रविपाकाः प्रकृतयः । साम्प्रतं जीवविपाका भाविपाकाश्च प्रकृतीराह----
१ छा० विना •तः परावर्तमानप्रकृतयः, तद्भण ।। २ सं० १-२ छा० त०म० संना० ॥ ३ निरयायुष उदये नरके वक्रेण गच्छतः । निरयानुपूर्व्यास्तत्रोदयोऽन्यत्र नास्ति || एवं तिर्यङ्-मनुजदेवेषु तेष्वपि वक्रेण गच्छतः । तासामानुपूर्वीणां तत्रोदयोऽन्यत्र नास्ति ।।