SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा इति वचनात्, तत् कथं न विरोधः ९ इत्याह - " दोसु वि वन्नाहगह " त्ति 'द्वयोरपि' पुण्य-पापप्रकृतिराश्योः 'वर्णादिग्रहात् ' वर्ण-रस- गन्ध-स्पर्शग्रहणान्न कश्चनापि विरोधः । अयमभिप्रायः - वर्णादयो हि पुण्यस्वभावाः पापस्वभावाश्च वर्तन्ते, ततः पुण्यवर्णचतुष्टयं पुण्यप्रकृतिषु मध्ये गृह्यते, पापवर्णचतुष्टयं पुनः पापप्रकृतिषु । ततः पुण्य-पापप्रकृतिराश्योर्वर्णादिचतुष्कं यत् तदेकमेव सत् प्रशस्ता - ऽप्रशस्तभेदेनोभयत्रापि विवक्ष्यत इत्यदोषः । तथा एता एव पुण्यप्रकृतयः शुभकारणजन्यत्वात् शुभा उच्यन्ते, पापप्रकृतयस्त्वशुभ कारणजन्यत्वादशुभा अभिधीयन्त इतिं ॥१६-१७॥ उक्तं पुण्यप्रकृति-पापप्रकृतिद्वारद्वयम् । सम्प्रति परावर्तमानाऽपरावर्तमानप्रकृतिद्वारद्वयं व्याचिख्यासुर्द्वारगाथायां परावर्तमानप्रकृतीनां पूर्व निर्देशेऽपि इह अल्पसङ्ख्याकत्वेन प्रथममपरावर्तमानाः प्रकृतीराह- १८ नामधुवबंधिनवगं, दंसण पण नाण विग्घ परघायं । भय कुच्छ मिछ सास, जिण गुणतीसा अपरित्ता ||१८|| नाम्नो ध्रुवबन्धिनवकं नामध्रुवबन्धिनवकं वर्णचतुष्क-तैजस-कार्मणा गुरुलघु-निर्माण उपघातलक्षणम्, दर्शनचतुष्कं -चक्षुः - अचक्षुः- अवधि - केवलदर्शनरूपम्, 'पञ्च ज्ञानानि' मति श्रुताsaधि-मनःपर्याय- केवलज्ञानाभियानि, काकाक्षिगोलकन्यायादत्रापि पञ्चशब्दस्य सम्बन्धात् पञ्च 'विघ्नानि' अन्तरायाणि - दान लाभ- भोग- उपभोग- वीर्यान्तरायाख्यानि पराघातं भयं 'कुत्सा' जुगुप्सा मिथ्यात्वं "सासं" ति उच्छ्वासं जिननाम इत्येता एकोनत्रिंशत्प्रकृतयः 'अपरिवृत्ताः ' अपरावर्तमाना भवन्ति । अयमत्र भावः - या नामध्रुवबन्धिनवकप्रभृतय एकोनत्रिंशत्प्रकृतयस्ताः स्वबन्धोदय भयकालेषु नान्यस्याः प्रकृतेर्बन्धमुदयमुभयं वा निरुध्य प्रवर्तन्तेऽतोऽपरावर्तमाना इति ॥ १८ ॥ उक्ता अपरावर्तमानाः प्रकृतयः । साम्प्रतं परावर्तमानप्रकृतीराह - - तणुअट्ठ वेय दुजुयल, कसाय उज्जोयगोयदुग निद्दा | तसवीसाऽऽउ परित्ता, वित्तविवागाणुपुब्वीओ ॥ १९ ॥ तनुशब्देनोपलक्षितमष्टकं “तणुवंगा गिइसंघयणजाइगइख गइपुच्चि " ( गा० ३) इति गाथावयवेन प्रतिपादितं तन्वष्टकम् । तत्र तनवस्तैजस-कार्मणयोरपरावर्तमानासु प्रतिपादितत्वात् शेषा औदारिक- वैक्रिया - SSहारकरूपास्तिस्रः, उपाङ्गानि त्रीणि, / आकृतयः षट्, संहननानि षट्, जातयः पञ्च चतस्रो गतयः, खगतिद्वयम् आनुपूर्वीचतुष्कमिति तन्वष्टकशब्देन त्रयस्त्रिंशत्प्रकृतयो गृह्यन्ते । 'वेदाः' स्त्री-पु-नपुसकरूपास्त्रयः 'द्वियुगलं' हास्य-रति- अरति शोकरूपं, कषायाः षोडश, "उज्जोयगोयदुगं" ति द्विकशब्दस्य प्रत्येकं सम्बन्धाद् उद्योतद्विकम् - "उज्जोयायव" 1
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy