________________
१४-१६ ]
शतकनामा पञ्चमः कर्मग्रन्थः । त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सुरत्रिकम्-देवगति-देवमति- देवायुर्लक्षणम् , नरत्रिकम्-नरगति-नरानुपूर्वी-नरायुर्लक्षणम् , "उच्च" त्ति उच्चैर्गोत्रं सातं 'त्रसदशकं' त्रस-बादरपर्याप्त-प्रत्येक-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय यश कीर्तिलक्षणम् , तनवः-औदारिक-वैक्रियाऽऽहारक-तैजस-कार्मणरूपाः पञ्च, उपाङ्गानि-औदारिकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गा-ऽऽहारकाङ्गो. पाङ्गलक्षणानि त्रीणि, “वइर" त्ति वज्रऋषभनाराचसंहननम् 'चतुरस्र" समचतुरस्र “परघासग" त्ति पराघातसप्तकम्-पराधात उच्छवासा.ऽऽतप-उद्योत ऽगुरुलघु-तीर्थकरनाम-निर्माणरूपम् , तिर्यगायुः 'वर्णचतुष्क' वर्ण-गन्ध-रस-स्पर्शाख्यम् , पञ्चेन्द्रियजातिः 'शुभखगतिः' प्रशस्तविहायोगतिरिति ॥१५॥
बायाल पुन्नपगई, अपढमसंठाणखगइसंघयणा ।
तिरिदुग असाय नीयोवघाय इग विगल निरयतिगं ॥१६॥ --थावरदस वनचक्क घाइपणयालसहिय बासीई ।
पावपयडि त्ति दोसु वि, वन्नाइगहा सुहा असुहा ॥१७।। सुरत्रिकप्रभृतयः शुभखगतिपर्यन्ता एता द्विचत्वारिंशत्सङ्ख्याः पुण्याः-शुभाः प्रकृतयः पुण्यप्रकृतय उच्यन्ते ।
उक्ताः पुण्यप्रकृतयः इदानी पापप्रकृतीराह--"अपढमसंठाण" इत्यादि । संस्थानानि च खगतिश्च संहननानि च संस्थान-खगति-संहननानि, अप्रथमानि च-प्रथमवर्जानि तानि संस्थानखगति संहननानि च अप्रथमसंस्थान खगति-संहननानि । तत्राप्रथमसंस्थानानि न्यग्रोधपरिमण्डलसादि-कुब्ज-वामन हुण्डाख्यानि पञ्च, अप्रथमखगतिः-अप्रशस्तविहायोगतिः, अप्रथमसंहननानिऋषभनाराच-नाराच ऽर्धनाराच कीलिका-च्छेदवृत्तरूपाणि पश्च, 'तिर्यग्द्विक' तिर्यग्गति तिर्यगानुपूर्वीरूपम् असातं नीचैर्गोत्रम् उपघातम् "इग" त्ति एकेन्द्रियजातिः “विगल" ति द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियजातयः 'नरकत्रिकं' नरकगति नरकानुपूर्वी नरकायुर्लक्षणं 'स्थावरदशक' स्थावर सूक्ष्मा-ऽपर्याप्तक-साधारणा-ऽस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्तिरूपं, 'वर्णचतुष्क' वर्ण-गन्ध-रस-स्पर्शाख्यं "घाइपणयाल" त्ति सर्वघातिन्यो विंशतिः देशघातिन्यः पञ्चविंशतिः, उभया' अपि मिलिताः सामान्येन घातिन्यः पश्चचत्वारिंशद् भवन्ति, ताभिः सहिता:युक्ताः पूर्वोक्ता अप्रथमसंस्थानादिका वर्णचतुष्कपर्यवसानाः सप्तत्रिंशत्सङ्ख्या द्वयशीतयः पापप्रकृतयो भवन्ति । इतिशब्दः परिसमाप्तौ द्वयशीतय एव पापप्रकृतयो न ऊनाधिका इत्यर्थः ।
ननु द्विचत्वारिंशत्पुण्यप्रकृतयो भवन्ति द्वयशीतिश्च पापप्रकृतयो मिलिताश्चतुर्विंशत्युत्तरं प्रकृतिशतं जातं, बन्धे तु विंशत्युत्तरमेव शतमधिक्रियते "बंधे विसुत्तरसयं" (कर्मस्त० भा० गा० १)