________________
[ गाथाः
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
१६
ऽभ्युदये वर्तमानस्याप्याहारपरिणमन-कर्मदलिकग्रहण- गत्यन्तरगमनादिविषय एतावान् वीर्यान्तरायकर्मक्षयोपशमो विद्यते, तत्क्षयोपशमविशेषतथ निगोदजीवानादौ कृत्वा यावत् क्षीणमोहस्तावद् वीर्यमल्पं बहु बहुतरं बहुतमं च तारतम्याद् भवतीति, केवलिनश्च तत्कर्मक्षयसम्भूतं सर्ववीर्यं भवतीति देशघातीदम् | यदि पुनः सर्वघाति स्यात् तदा यथैव मिथ्यात्वस्य कपायद्वादशकस्य च उदये तदावार्यं सम्यक्त्वगुणं देश- सर्वसंयमगुणं च जघन्यमपि न लभते तथैव च तदुदयेऽपि तदावार्यं जघन्यमपि वीर्यगुणं न लभेत, न चैवमस्ति तस्मादिदमपि देशघातीति स्थितमिति ।
उक्ताः सर्व- देशघातिन्यः । सम्प्रति तत्प्रतिपक्षभूता/ अघातिनीर्व्याचिख्यासुराह - "अघाई" इत्यादि । अघातिय एताः पञ्चसप्ततिसङ्ख्याः प्रकृतयोऽभिधीयन्ते । तद्यथा - "पत्तेय" त्ति प्रत्येकप्रकृतयः पर।घात-उच्छ्वासा-ऽऽतप उद्योता - गुरुलघु-तीर्थकर - निर्माण - उपघातरूपा अष्टौ 1 "तणुट्ट" त्ति तन्वा (नु )शब्देनोपलक्षितमष्टकं " तवंगागिइसंघयण जाइ गइखगइपुग्वि" ( गा० ३ ) इति लक्षणं तन्वष्टकम्, तत्र तनवः - औदारिक-वै क्रिया- ऽऽहारक- तैजस-कार्मणलक्षणाः पञ्च, उपाङ्गानि त्रीणि, आकृतयः - संस्थानानि पटू, संहननानि षट् जातयः पञ्च गतयश्चतस्रः, खगती द्वे, पूर्व्यः- आनुपूर्व्यश्वतस्रः, एवं तन्वष्टके प्रकृतयः पञ्चत्रिंशत् । आयुषि चत्वारि । त्रस - विंशतिः- त्रसदशक-स्थावरदशकमीलनात् । "गोयदुग" ति गोत्रशब्देनोपलक्षितं द्विकम् ' गोयवेयणियं " ( गा० ३ ) इतिगाथांशेन प्रतिपादितम् गोत्रम् उच्चैगोत्रं नीचैर्गोत्रमिति, साता-सातभेदाद् वेदनीयं द्विधा, तदेवं गोत्रद्विकशब्देन प्रकृतिचतुष्टयमभिधीयते । "वन्न" त्ति वर्ण गन्धरस-स्पर्शाख्याश्चतस्रः प्रकृतयो गृह्यन्ते इति । एताः प्रकृतयोऽघातिन्यः, न कञ्चन ज्ञानादिगुणं घातयन्तीति कृत्वा, केवलं सर्व- देशघातिनीभिः सह वेद्यमानास्तत्सदृश्योऽनुभूयन्ते । अयमर्थ:सर्वघातिनीभिः सह वेद्यमाना एता अघातिन्योऽपि सर्वधातिरसविपाकं दर्शयन्ति, देशघातिनीभिः सह पुनर्वेद्यमाना देशघातित्सम् यथा स्वयमचौरोऽपि चौरैः सह वर्तमानचौर इवावभासते । यदभाणि -
9
,
जाण न विसओ घाइतणम्मि ताणं पि सव्वधाइरसो ।
- जायइ घाइ सगासेण चोरया वेहऽचोगणं || (पञ्चसं० गा० १५९ ) ॥ १४॥ उक्तं सप्रतिपक्षं सर्व देशघातिद्वारम् । सम्प्रति पुण्य-पापप्रकृती विंधरीपुराह
सुरनरतिगुच्च सायं तसदस तणुवंग वर चउरंसं । परघासग तिरिआउं, वंन्नचउ पणिदि सुभखगई
।।१५।।
१ यासां न विषयो । तासामपि सर्वघातिरसः । जायते घातिसकाशेन चौरता इवेहाचौराणाम् ॥ २ पश्वसङ्ग्रहस्वोपज्ञटीकागतगाथायां तु समासेण । बृहत्टीकागतगाथायां पुनः - ०सगासेण ॥