________________
१३-१४ ]
शतकनामा पञ्चमः कर्म ग्रन्थः ।
मणम्प्रुपलभ्यते तत्र वारिवाहदृष्टान्तो / वाच्यः । तथा मिध्यात्वं तु जिनप्रणीततत्त्वश्रद्धानरूपसम्यक्त्वं सर्वमपि हन्तीति सर्वघाति, यत्तु तस्य बलोदयेऽपि मनुष्य पश्वादिवस्तुश्रद्धानं तदपि जलधरोदाहरणादव सेयमिति ।
१५
भाविताः सर्वघातिन्यः । सम्प्रति देशघातिन्यो भाव्यन्ते - " चउनाण तिदंसणावरण" त्ति आवरणशब्दस्य प्रत्येकं सम्बन्धाद् ज्ञानावरणचतुष्कम् - मतिज्ञानावरण १ श्रुतज्ञानावरण २अवधिज्ञानावरण ३ मनःपर्यायज्ञानावरण ४ लक्षणम्, दर्शनावरणत्रिकं - चक्षुर्दर्शनावरण १अचक्षुर्दर्शनावरण २ अवधिदर्शनावरण ३ रूपमिति । सञ्ज्वलनाश्चत्वारः - क्रोध मान-मायालोभाः | ‘नोकषायाः' हास्य १ रति २ अरति ३ शोक ४ भय ५ जुगुप्सा ६ स्त्रीवेद ७ पुवेद८ नपुंसक वेद स्वरूपा नव । 'विघ्नम् ' अन्तरायं - दान लाभ- भोग- उपभोग वीर्यान्तरायलक्षणम् । 'इति' अमुना दर्शितप्रकारेण देशघातिन्यः पञ्चविंशतिसङ्ख्याः प्रकृतयो भवन्तीत्यक्षरार्थः । भावार्थस्त्वयम् – मतिज्ञानावरणादिचतुष्कं केवलज्ञानावरणानावृतं ज्ञानदेशं हन्तीति देशघातीदमुच्यते, मत्यादिज्ञानचतुष्टयविषयभूतानर्थान् यद् नावबुध्यते स हि मत्यावरणाद्युदय एव, तदविषयभूतांस्त्वनन्तगुणान् यत्र जानीते स केवलज्ञानावरणस्यैवोदय इति । चक्षुः-अचक्षुःअवधिदर्शनावरणान्यपि केवलदर्शनावरणानात केवलदर्शनैकदेशमावृण्वन्तीति देश तथाहि —चक्षुः- अचक्षुः-अवधिदर्शनविपयभृतानेवाऽर्थान् एतदुदयाद् न पश्यति । तदविषयभूतांस्त्वनन्तगुणान् केवलदर्शनावरणोदयादेव न समीक्षते । तथा सञ्ज्वलना नव नोकषायाश्च लब्धस्य चारित्रस्य देशमेव घ्नन्तीति देशघातिनः तेषां मूल उत्तरगुणानामतीचारजनकत्वात् । यदवादि श्रीमदाराध्यपादैः
'सव्वे विय अइयारा, संजलणाणं तु उदयओ हु ंति ।
मूलच्छिज्जं पुण होइ, बारसहं कसायाणं ॥ ( आव० नि०गा० ११२ ) इति ।
दानान्तरायादीनि पञ्च अन्तरायाण्यपि देशघातीन्येव । तथाहि - दान लाभ- भोग-उपभोगानां तावद् ग्रहण-धारणायोग्यान्येव द्रव्याणि विषयः, तानि च समस्तपुद्गलास्तिकायस्यानन्तभागरूपे देश एव वर्तन्ते, अतो यदुदयात् तानि पुद्गलास्तिकाय देशवर्तीनि द्रव्याणि यद् दातु लब्धु मोक्तुमुपभोक्तु च न शक्नोति तानि दान लाभ-भोग उपभोगान्तरायाणि तावद् देशघातीन्येव । यत्तु सर्वलोकवर्तीनि द्रव्याणि न ददाति न लभते न भुङ्क्ते नाप्युपभुङ्क्ते तन्न दानान्तरायाद्युदयात्, किन्तु तेषामेव ग्रहण धारणाविषयत्वेनाशक्यानुष्ठानत्वादिति मन्तव्यम् । वीर्यान्तरायमपि देशघात्येव, सर्ववीर्यं न घातयतीति कृत्वा । तथाहि सूक्ष्मनिगोदस्य वीर्यान्तरायकर्मणो
१ सर्वऽपि चातिचाराः सञ्ज्वलनानां तूदयतो भवन्ति । मूलच्छेद्य पुनर्भवति द्वादशानां कपायाणाम् ॥