________________
१४
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथाः
इह केवलज्ञानावरणस्य स्वावार्यः केवलज्ञानलक्षणो गुणः, स च यद्यपि सर्वात्मनाऽऽत्रियते तथापि सर्वजीवानां केवलज्ञानस्यानन्तभागोऽनावृत एवावतिष्ठते, तदावरणे तस्य सामर्थ्याभावात् । यदाहु: श्रीदेव डिवाचकवरा:
'सव्वजीवाणं पियणं अक्खरस्स अनंतभागो निच्चुग्घाडिओ चिट्ठे | (नन्दीप० १६५ ) इति । कथं तर्हि सर्वघातित्वम् ? इति चेद् अभिधीयते - यथाऽतिबले जलदपटले समुन्नते बहुतराया आवृतत्वात् सर्वाऽपि सूर्याचन्द्रमसोः प्रभानेनावृतेति वचनरचना प्रवर्तते, अथवाऽद्यापि काचित् तत्प्रभा प्रसरति - "" सुट्ट वि मेहसमुदए, होइ पहा चंदसूराणं ।। " ( नन्दीपत्र १६५ ) इति वचनादनुभवसिद्धत्वाच्च तथाऽत्रापि प्रबलकेवलज्ञानावरणावृतस्यापि केवलज्ञानस्यानन्तभागात वास्ते । यदि पुनस्तमप्यावृणुयात् तदा जीवोऽजीवत्वमेव प्राप्नुयात् ।
,
यदुक्तं नन्यध्ययने—
8 जड़ पुण सो वि आवरिज्जा ता णं जीवो अजीवत्तणं पाविज्जा । ( पत्र १६५ )
सोऽपि चावशिष्टोऽनन्तभागो जलधरानावृतदिनकरकरप्रसर व कट-कुटयादिभिर्मतिश्रुता-ऽवधि-मनःपर्याय ज्ञानावरणैरात्रियते. तथापि काचिद् निगोदावस्थायामपि ज्ञानमात्राऽवतिष्ठते, अन्यथा अजीवत्वप्रसङ्गात् । मतिज्ञानादिविषयभूतश्रार्थान् यन्न जानीते स केवलज्ञानावरणदयो न भवति, किं तहिं ? मतिज्ञानावरणाद्युदय एवेति । केवलदर्शनावरणस्य समस्तवस्तु - स्तोमसामान्यावबोध आवार्यः, तं सर्वं हन्तीति सर्वघाति अभिधीयते, तदनन्तभागं त्विदमपि सामर्थ्याभावाद् नात्रृणोति, सोऽपि चानावृतोऽनन्तभागचक्षुः- अचक्षुः- अवधिदर्शनावरणैरात्रियते, शेषो जलधरदृष्टान्तादिचर्चस्तथैव । यच्च चक्षुर्दर्शनादिविपयानर्थान् न पश्यति, म केवलदर्शनावरणोदयो न भवति, किं तर्हि ? चक्षुर्दर्शनावरणाद्युदय एवेति । यद्येवं तर्हि केवलज्ञानावरण- केवलदर्शनावरणक्षये सत्यपि मतिज्ञानादिविषयाणामर्थानामवबोधो न प्राप्नोति भिज्ञानविषयत्वाद्, इति चेद् उच्यते - केवलालो कलाभे शेषबोधलाभान्तर्भावात् ग्रामलाभे क्षेत्रलाभान्तर्भाववदिति । निद्रापञ्चकमपि सर्वं वस्त्ववबोधमावृणोतीति सर्वघाति, यत् पुनः स्वापावस्थायामपि किञ्चित्" चेतयति तत्र धाराधरनिदर्शनं वाच्यम् । तथाऽनन्तानुबन्धिनोऽप्रत्याख्यानावरणाः प्रत्याख्यानावरणाश्च प्रत्येकं चत्वारो यथाक्रमं सम्यक्त्वं देशविर तिचारित्रं सर्वविरतिचारित्रं च सर्वमेव घ्नन्तीति सर्वघातिनो द्वादशापि कषायाः, यत् पुनस्तेषां प्रबलोदयेऽप्ययोग्याहारादिविर
•
१ सर्वजीवानामपि चाक्षरस्यानन्तमागां नित्योद्घाटितस्तिष्ठति ।। २सं० १-२ ०४ चा० ॥ ३ सुष्ठवपि मेघसमुदये मवति प्रभा चन्द्रसूर्ययोः ॥ ४ यदि पुनः सोऽपि आवृणीयात्तदा जीवोऽजीवत्वं प्राप्नुयात् ॥ ५ सं० १-२ छा० ०यावर० ।। ६ छा० ०द् तदयुक्तम् ॥ ७ सं० १ छा० ०दु चिकेति ॥