________________
११-१४]
शतकनामा पञ्चमः कर्मग्रन्थः। यः पुनर्विशुद्धसम्यक्त्वेऽपि सति तद् न बध्नाति तस्य सर्वगुणस्थानकेषु तत्सत्ता न लभ्यते, यतोऽनयोः संयम-सम्यक्त्वलक्षणस्वप्रत्ययसद्भावेऽपि बन्धाभावाद् नावश्यं सत्तासम्भवः । यदुक्तं कर्मप्रकृतिसङ्ग्रहण्याम्
___ आहारग तित्थगरा भज त्ति । आहारकसप्तक-तीर्थकरनाम्नी सत्ता प्रति भाज्ये इति भावः। एवमाहा रकसप्तके तीर्थकर. नामनि च प्रत्येकं सत्तारूपेणाऽवतिष्ठमाने मिथ्यादृष्टिरपि जन्तुर्भवतीति निश्चितम् । उभयसत्तायामसो भवति न वेति विनेयाऽऽशङ्कायामाह-"नोभयसंते मिच्छो" त्ति । 'न' नैव उभयम्य-आहारकसप्तक-तीर्थकरलक्षगद्विक स्य सत्वे-सत्तासद्भावे सति मिथ्यादृष्टिर्भवेत् । कोऽर्थः ? उभयसत्तायां मिथ्यात्वं न गच्छतीति भावः । तर्हि केवलतीर्थकरनामकर्मसत्तायां कियन्तं कालं मिथ्यादृष्टिर्भवति ? इत्याह-"अंतमुहुत्तं भवे तित्थे'' त्ति 'अन्तमुहूर्तम्' अन्तमुहर्तमात्रं कालं भवेत्' जायेत "मिच्छो" ति इत्यस्यात्रापि सम्बन्धाद् मिथ्यादृष्टिः । क्क सति ? इत्याह-"तित्थे" ति तीर्थकरनामकर्मणि सत्तायां वर्तमान इति गम्यते । इदमुक्तं भवति
यो नरके बद्रायुष्को वेदकसम्यग्दृष्टिर्बद्धतीर्थकरनामकर्मा सन् तत्रोत्पित्सुरवश्यं सम्यक्त्वं • परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमनन्तरमन्तमु हादूर्ध्वमवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायमुक्तप्रमागः कालो लभ्यत इति ।।१२।।
उक्तं सप्रतिपक्षं ध्रुवसत्ताकप्रकृतिद्वारम् । अधुना सप्रतिपक्षं सर्व-देशघातिप्रकृतिद्वारं प्रतिपादयन्नाह
केवलजुयलावरणा, पण निद्दा घारसाइमकसाया । मिच्छं ति सव्वघाई, च उनाणनिर्दसणावरणा ॥१३॥ संजलण नोकसाया, विघं इय देस घा ईओ अघाई।
पत्तेयतणुट्ठाऽऽऊ, तसबीसा गोयदुगवन्ना ॥१४॥ - केवलयुगलं-केवलज्ञान-केवलदर्शनरूपं तस्यावरणे-आच्छादके कर्मणी केवलयुगलावरणे , केवलज्ञानावरणं केवलदर्शनावरणं चेत्यर्थः । 'पञ्च निद्राः' निद्रा १ निद्रानिद्रा २ प्रचला ६प्रचलाप्रचला ४ म्त्यानद्धिं ५ रूपाः । द्वादशेति सङ्ख्या 'आदिमकपायाः' सज्वलनापेक्षया प्रथमकपाया:-क्रोध-मान-माया-लोभानामेकैकशोऽनन्तानुबन्धि १ अप्रत्याख्यानावरण २ प्रत्याख्यानावग्ण ३ लक्षणनामत्रयेण द्वादशधात्वम् । मिथ्यात्वमिति । अनेन प्रदर्शितप्रकारेण सर्वमपि स्वावार्य गुणं घातयन्तीत्येवंशीलाः सर्वघातिन्यो विंशतिसङ्ख्या भवन्तीत्यक्षरार्थः । भावार्थः पुनरयम्
१ स ० १-२ रकतीर्थ । २ छा००स्य सत्ता० ॥ ३ छा० म० इय॥