________________
[ गाथा
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः __पूर्वार्धं सुगममेव । उत्तरार्धस्येयमक्षरगमनिका-संयोजयन्त्यात्मनोऽनन्तकालमिति "रम्यादिभ्यः कर्तरि" (सिद्ध०५-३-१२६) इत्यनटि प्रत्यये संयोजनाः-अनन्तानुबन्धिकपायाः, 'तुः' पुनरर्थे, 'नियमात्' नियमेन 'द्वयोः' मिथ्यादृष्टि-सास्वादनयोः सत्तामाश्रित्य भवन्ति, यत एताववश्यमनन्तानुबन्धिनो बध्नीत इति । पञ्चसु पुनगुणस्थानकेषु सम्यग्मिथ्यादृष्टिप्रभृतिष्वप्रमत्तसंयतपर्यन्तेषु सत्तां प्रतीत्य भक्तव्याः, यधुद्वलितास्ततो न सन्ति इतरथा तु सन्तीत्यर्थः ।।
तदुपरितनेषु पुनरपूर्व करणादिषु सर्वथैव तत्सत्ता नास्ति,. यतस्तदभिप्रायेण विसंयोजितानन्तानुबन्धिकषाय एवोपरामश्रेणिमपि प्रतिपद्यत इति ।।११।।
आहारसत्तगं वा, सव्वगुणे बितिगुणे विणा तिथं । नभयसंन मिच्छो, अतमुहत्तं भवे तित्थे ।।१२।। - 'आहारकसप्तकं' आहारकशरीर १ तदङ्गोपाङ्ग २ आहारकसङ्घात ३ आहारकाहारकबन्धन ४ आहारकतैजसबन्धन ५ आहारककार्मणबन्धन ६ आहारकतैजसकार्मणबन्धन ७लक्षणं 'वा' विकल्पेन-भजनया 'सर्वगुणे' सर्वगुणस्थानकेषु मिथ्यादृष्टिप्रभृत्ययोगिकेवलिपर्यवसानेपु, मूने चैकवचनं प्राकृतत्वात् , ततश्च सर्वगुणस्थानकेषु विकल्पनया सत्तां प्रतीत्य आहा. रकसप्तकं प्राप्यते । इदमत्र हृदयम् -योऽप्रमत्तमंयतादिः संयमप्रत्ययादाहारकसप्तकवन्ध विधाय विशुद्धिवशादुपरितनगुणस्थानकेषु समारोहति, यश्च कश्चिदविशुद्धाध्यवसायवशादुपरितनगुणस्थानकेभ्योऽधस्तनगुणस्थानकेषु प्रतिपतति तस्याहारकसप्तकं सर्वगुणस्थानकेषु सत्तायां प्राप्यते, यः पुनराहारकसप्तकं न बनात्येव तद्वन्ध विनैवोपरितनगुणस्थानकेष्वध्यारोहति तस्य जन्तोस्तत् तेषु सत्तायां नावाप्यत इति। तथा “वितिगुणे विणा तित्थं" ति कोलि कनलिकन्यायेन 'सर्वगुगेषु वा' इत्यत्रापि सम्बन्धनीयम् । सर्वगुणस्थानकेषु द्वितीय-तृतीयगुणस्थानके विना, सास्वादन-मिश्रगुणस्थानकरहितेषु द्वादशस्वित्यर्थः, 'वा' विभाषया-भजनया तीर्थकरनाम सत्तायां प्राप्यत इति । इदमत्र तात्पर्यम्-यदा कश्चिदविरतसम्यग्दृष्टयादिरपूर्वकरणभागपट्कं यावत् सम्यक्त्वप्रत्ययात् तीर्थकरनामकर्म बद्ध्या उपरितनगुणस्थानकान्यधिरोहति, कश्चिच्च बद्धतीर्थकरनामकर्मा अविशुद्धिवशात् मिथ्यात्वमपि गच्छति तदा सास्वादन-मिश्ररहितेषु द्वादशगुणस्थानकेषु तीर्थकरनामकर्म सत्तायामवाप्यते, तीर्थकरनामसत्ताको हि मिश्र-सास्वादनभावं न प्रतिपद्यते स्वभावादेवेति तर्जनम् । यदुक्तं बृहत्कर्मस्तवभाष्ये
तिन्थयरेण विहीणं, सीयालसयं तु संतए होइ ।
सासायणम्मि उ गुणे, सम्मामीसे य पयडीणं ॥ (गा० २५) ५ सं० १-२०कनलकन्या०॥ २ तीर्थकरेण विहीनं सप्तचत्वारिंशं शतं तु सत्तायां भवति । सास्वाइने तु गुणे सम्यग्मिश्रे च प्रकृतीनाम् ॥