________________
८-११ ]
शतकनामा पञ्चमः कर्मग्रन्थः। पड्विशतिसत्कर्मणि उद्वलितसम्यक्त्वपुजे वा, मिश्रेऽप्युद्वलितसम्यग्दर्शने, अविरतादौ चोपशान्तमोहान्ते क्षीणसप्तके सम्यग्दर्शनमोहनीयं सत्तायां न प्राप्यते अन्यत्र सर्वत्र लभ्यत इति ॥१०॥
सासणमीसेसु धुरं, मोसं मिच्छाइनवसु भयणाए ।
आइदुगे अण नियया, भइया मीसाइनवगम्मि ॥११॥ सास्वादनं च मिश्रं च सास्वादन-मिश्रे तयोः सास्वादन-मिश्रयोः, बहुत्वं च प्राकृतवशात् , यदाहुः प्रभुश्रोहेमचन्द्रसूरिपादाः-"द्विवचनस्य बहुवचनम्" (सिद्ध०८.३-१३०) यथा'हत्था पाया' इत्यादौ, साम्बादनगुणस्थाने सम्यग्मिथ्यादृष्टिगुणस्थाने चेत्यर्थः, 'ध्रुवम्' अवश्यम्भावेन 'मिथ' सम्यग्मिथ्यादर्शनमोहनीयं सद्' इति पूर्वोक्तगाथातो डमरुकमणिन्यायादिहापि सम्बध्यते । इदमत्र हृदयम्-सासादनो नियमादष्टाविंशतिसत्क.मैव भवति, मिश्रश्चाष्टाविंशतिसत्कर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मा उद्वलितानन्तानुवन्धिचतुष्कश्चतुर्विंशतिसत्कर्मा वा, तत एतेषु सत्तास्थानकेषु मिश्रसत्ताऽवश्यं लभ्यते; पडिवशतिमत्कर्मा तु मिश्रो न सम्भवत्येव, मिश्रपुञ्जस्य सत्तोदयाभ्यां व्यतिरेकेण मिश्रगुणस्थानकाप्राप्तेरिति । 'मिथ्यात्वादिनवसु' मास्वादन-सम्यग्मिथ्यात्वरहितेपु मिन्यादृष्टयाधुपशान्तमोहपर्यवसाननवगुणस्थानकेष्वित्यर्थः 'भजनया' विकल्पेन मिश्रम् , स्यात सत्तायामस्ति स्यान्नेति। किमुक्तं भवति ?-यो मिथ्यादृष्टिः पड्विंशतिमत्कर्मा, ये वाऽविरतसम्यग्दृष्टयादय उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टयः तेषु मिश्रं सत्तायां नावाप्यते अन्यत्र प्राप्यत इति । तथा 'आद्यद्विके' प्रथमगुणस्थानकयुगले-मिथ्यादृष्टिसास्वादनगुणस्थानकद्वय इत्यर्थः "अण" ति अनन्तानुबन्धिनः प्रथमकषायाः क्रोध-मान-मायालोभाख्याः 'नियताः' अवश्यम्भावेन सत्तायामवाप्यन्ते, यतो मिथ्यादृष्टि-सास्वादनसम्यग्दृष्टी नियमेनानन्तानुबन्धिनो बध्नीत इति भावः । तथा भाज्याः' भक्तव्याः-विकल्पनीयाः 'मिश्रादिनवके' सम्यग्मिथ्यादृष्टिप्रभृत्युपशान्तमोहपर्यवसाननवगुणस्थानकेश्वनन्तानुबन्धिनः, सत्तामाश्रित्य भक्तव्या इत्यर्थः । इयमत्र भावना-विसंयोजितानन्तानुबन्धिनश्चतुर्विंशतिसत्कर्मणः सम्यग्मिथ्यादृष्टेः क्षीण सप्तकस्यै कविंशतिसत्कर्षणोऽनन्तानुवन्धिरहितचतुर्विंशतिसत्कर्मणो वाऽविरतसम्यग्दृष्टयादेरनन्तानुबन्धिनः सत्तायां न सन्ति तदितरस्य तु सन्तीति । एतच्च शेषकर्मग्रन्थाभिप्रायेणोक्तम् । कर्मपको पुनः श्रोशिवशर्मसूरिपादा एवमाहुः--
'बीयतइएसु मीसं, नियमा ठाणनवगम्मि भइयव्वं । संजोयणा उ नियमा, दुसु पंचसु हुँति भइयव्वा ॥ (गा० ४२३)
१ छा००चाविर०॥ २ द्वितीयतृतोययोर्मिश्रं नियमात्स्थाननवके मक्तव्यम् । संयोजनास्तु नियमाद् दूपोः पथ्वसु भवन्ति भक्तव्याः ॥