________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
अयमिह भावार्थः – सम्यक्त्वं मिश्रं वाऽभव्यानां प्रभूतभव्यानां च सत्तायां नास्ति, केषाञ्चिदस्तीति । तथा मनुष्यद्विकं वैकियैकादशकम् इत्येतात्रयोदश प्रकृतयस्तेजो- वायुकायिकजीवमध्यगतस्योद्वर्तनाप्रयोगेण सत्तायां न लभ्यन्ते, इतरस्य तु भवन्ति । तथा वैक्रियैकादशकमसम्प्राप्तत्रसत्वस्य बन्धाभावाद् विहितेतद्बन्धस्य स्थावरभावं गतस्य स्थितिक्षयेण वा सत्तायां न लभ्यते, तदन्यस्य सम्भवत्यपि । तथा सम्यक्त्वहेतौ सत्यपि जिननाम कस्यचिद् भवति कस्यचिद् नेति । तथा देव-नारकायुपी स्थावराणाम् तिर्यगायुष्कं त्वहमिन्द्राणां देवानाम्, मनुजायुष्कं पुनस्तेजो वायु-सप्तमपृथिवीनारकाणां सर्वथैव तद्भन्धाभावात् सत्तायां न लभ्यते, अन्येषां तु सम्भवत्यपि । तथा संयमे सत्यपि आहारकसप्तकं कस्यचिद् बन्धसद्भावे सत्तायां स्यात् तदभावे कस्यचित् नेति। तथोच्चैर्गोत्रमसम्प्राप्तत्र सत्वस्य बन्धाभावाद् विहितैतद्वन्धस्य स्थावरभावं गतस्य स्थितिझयेण वा सत्तायां न लभ्यते, तेजो-वायुकायिकजीवमध्यगतस्य । उद्वर्तनप्रयोगेण वा सत्तायां - न लभ्यते, इतरस्य तु भवतीत्यासामध्रुवसत्ताकता ॥ ८-६ ॥
१०
उक्तं ध्रुवसत्ताका ध्रुवसत्ताकप्रकृतिद्वारद्वयम् । सम्प्रति गुणस्थानकेषु कासाञ्चित् प्रकृतीनां ध्रुवाsध्रुवसत्तां गाथात्रयेण निरूपयन्नाह -
पढमतिगुणेसु मिच्छं, निगमा अजगाइ अट्ठगे भज्जं । सासाणे खलु सम्मं, संतं मिच्छाइदसगे वा ॥ १० ॥
प्रथमाः- आद्यास्त्रयः- त्रिसङ्ख्या गुणाः - गुणस्थानकानि प्रथमत्रिगुणाः तेषु प्रथम त्रिगुणेषु - मिथ्यादृष्टि- सास्वादन - सम्यग्मिथ्यादृष्टिलक्षणेषु 'मिथ्यात्वं' मिथ्यात्वलक्षणा प्रकृतिः 'नियमात्, निश्वयेन 'सद्' विद्यमानम्, सत्तायां प्राप्यत इत्यर्थः । 'अयताद्यष्टके' अविरतसम्यग्दृष्टि १ देश विरत२ प्रम'तसंयत ३ अप्रमत्तसंयत ४ अपूर्वकरण ५ अनिवृत्तिबादर ६ सूक्ष्मसम्पराय ७ उपशान्तमोह८ लक्षणेष्वष्टसु गुणस्थानकेषु 'भाज्यं' विकल्पनीयम्, कदाचिद् मिथ्यात्वं सत्तायामस्ति कदाचिनास्ति । तथाहि – अविरतसम्यग्दृष्ट्यादिना क्षपिते नास्ति, उपशमिते त्वस्ति । सास्वादने 'खलु' नियमेन “सम्मं”‘सम्यक्त्वं' सम्यग्दर्शनमोहनीयलक्षणा प्रकृतिः 'सद्' विद्यमानम्, सर्वदैव लभ्यत इत्यर्थः, यत औपशमिकसम्यक्त्वाद्धार्यां जघन्यतः समयावशेषायामुत्कृष्टतः पडावलिकावशिटायां सास्वादनो लभ्यते, तत्र च नियमादष्टाविंशतिसत्कर्मैवासाविति भावः । 'मिथ्यात्वादिदशके' मिथ्यादृष्ट्यादिषु सास्वादनवर्जितोपशान्तमोहपर्यवसानगुणस्थानकेषु दशसङ्ख्ये पु 'वा' विकल्पेन-भजनया सम्यक्त्वं सत्तायां स्याद् लभ्यते स्यान्नेति । तथाहि - मिध्यादृष्टौ जीवेऽनादि
१ छा० ०त्ताऽप्रमत्तसंयता- 50 ॥