________________
शतकनामा पञ्चमः कर्मग्रन्थः।
कपाया-ऽम्ल मधुरभेदात् पञ्च रसाः, गुरु-लघु-मृदु-खर शीत उष्ण-स्निग्ध-रुक्षस्पर्शभेदादष्टौ स्पर्शाः, सर्वमीलने च वर्णविंशतिरियमुच्यते, वर्णेनोपलक्षिता विंशतिवर्णविंशतिरिति कृत्वा । “सगतेयकम्म'' त्ति 'तेजस-कार्मणसप्तक' तेजसशरीर १ कार्मणशरीर २ तैजसतैज मबन्धन ३ तेजसकार्मणबन्धन ४ कार्मणकाणबन्धन ५ तेजससङ्घातन ६ कार्मण सङ्घातन ७ लक्षणम् । “धुवचंधि सेस" त्ति वर्णचतुष्क-तेजस-कार्यणस्योक्तत्वात् शेषा एकचत्वारिंशद् ध्रुवबन्धिन्यः । तथाहि-अगुरुलघु-निर्माण उपघात-भय-जुगुप्सा-मिथ्यात्व-कपायषोडशक ज्ञानावरणपञ्चक-दर्शनावरणनवका-ऽन्तरायपश्चकमिति । 'वेदत्रिक' स्त्री-पु-नपुंसकलक्षणम् । “आगिइतिग" त्ति "तणुवंगागिइसंघ. यण जाइगइखगई'' (गा० ३) इत्यादिसञ्ज्ञागाथोक्तमाकृतित्रिकं गृह्यते, तत आकृतयः-संस्थानानि षट् , संहननानि पड् , जातयः पश्च इत्येवमाकृतित्रिकशब्देन सप्तदश भेदा गह्यन्ते । 'वेदनीय' साता-ऽसातभेदाद्विधा । द्वयोयुगलयोः समाहारो द्वियुगलं हास्य रति अरति शोकरूपम् । “सगउरल' त्ति औदारिकसप्तकम्-औदारिकशरीर १ औदारिकाङ्गोपाङ्ग २ औदारिकसङ्घातन ३औदारिकोदारिकबन्धन ४ औदारिकतैजसबन्धन ५ औदारिककार्मणबन्धन ६ औदारिकतैजसकार्मणवन्धन ७ रूपम् । “सासचउ" त्ति 'उच्छ्वासचतुष्कं' उच्छ्वास-उद्योता-ऽऽतप पराघाताख्यम् । "खगईतिरिदुग' त्ति द्विकशब्दस्य प्रत्येक सम्बन्धात् खगतिद्विकं-प्रशस्तविहायोगति-अप्रशस्तविहायोगतिलक्षणम् , तिर्यग्द्विकं-तिर्यग्गति-तिर्यगानुपूर्वीरूपम् । “नीयं" ति नीचेगोत्रमिति । एतास्त्रिंशदुत्तरशतमङ्ख्याः प्रकृतयो ध्रुवमत्ताका अभिधीयन्ते, ध्रुवसत्ताकत्वं चामां सम्यवत्वलाभादक सर्वजीवेषु सदेव सद्भावात् । अथानन्तानुबन्धिनां कषायाणामुद्वलनसम्भवादध्रुवमत्ताकतैव युज्यते अतः कथं ध्रुवसत्ताकप्रकृतीनां त्रिंशदधिकशतसङ्ख्या सङ्गच्छते ? मेवं वोचः, यतोऽवाप्तसम्यक्त्वाद्युत्तरगुणानामेव जीवानामेतद्विसंयोगो, न सजीवानाम् , अधुवसत्ताकता चानवाप्तोत्तरगुणजीवापेक्षयेव चिन्त्यते अतोऽनन्तानुबन्धिनां ध्रुवसत्ताकतेक यदि चोत्तरगुणप्राप्त्यपेक्षया अध्रुवसत्ताकता कक्षीक्रियते तदा सर्वासामपि प्रकृतीनां स्यात् , नानन्तानुवन्धिनामेव, यतः सर्वा अपि प्रकृतयो यथास्थानमुत्तरगुणेषु सत्सु, सत्ताव्यवच्छेदमनुभवन्त्येवेति । तथा "सम्म" त्ति सम्यक्त्वं मिश्रम् , 'मनुजद्विक' मनुजगति-मनुजानुपूर्वीरूपम् , “विउविक्कार" त्ति 'वैक्रियैकादशकम्' देवगति १ देवानुपूर्वी २ नरकगति ३ नरकानुपूर्वी ४ वैक्रियशरीर ५वैक्रियाङ्गोपाङ्ग ६ वैक्रियसङ्घातन ७ वैक्रिय क्रियबन्धन ८ वक्रियतैजसवन्धन ९ चैक्रियकार्मणचन्धन १० वैक्रियतैजसकार्मणबन्धन ११ लक्षणम् , जिननाम, आयुश्चतुष्कम् , "हारसग" ति प्राकृतत्वाद् आकारलोपे 'आहारकसप्तकम्' आहारकशरीर ? आहारकाङ्गोपाङ्ग २ आहारकमचातन ३ आहारकाहारकबन्धन ४ आहारकतेजसबन्धन ५ आहारककामेणवन्धन ६ आहारकत जस. कार्मणबन्धनाख्यम् ७, उच्चगोत्रम् इत्येता अष्टाविंशतिसङ्ख्याः प्रकृतयोऽध्रुवसत्ताका उच्यन्ते ।