________________
S
F..
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
अभिहिता ध्रुवोदयाः प्रकृतयः । इदानीमध्रुवोदयाः प्रकृतीराह -
• धिग्सुभिगर विणु अडुवबंधी मिच्छ विणु मोहधुवधं त्री । निदोवधाय मीसं, सम्मं पणनवइ अधुवुदया ॥ ७ ॥
[ गाथा
इतरशब्दस्य प्रत्येकं सम्बन्धात् 'स्थिरेतर शुभेतर प्रकृतिचतुष्कं विना' स्थिरमस्थिरं शुभमशुभं विना शेषा एकोनसप्ततिसङ्ख्या अध्रुवबन्धिन्यः प्रकृतयः । तथाहि - तैजस-कार्मणवर्ज शरीरत्रिकम् अङ्गोपाङ्गत्रयं संस्थानपट्कं संहननषट्कं जातिपञ्चकं गतिचतुष्कं विहायोगतिद्विकम् आनुपूर्वीचतुष्कं जिननाम उच्छ्वासनाम उद्योतम् आतपं पराघातं त्रस बादर-पर्याप्तकप्रत्येक-सुभग-सुस्वरा-ऽऽदेय-यशः कीर्ति स्थावर--सूक्ष्माऽपर्याप्तक साधारण--- दुभंग-सुः स्वरा-नादेया- ऽयशःकीर्ति - उच्चैगौत्रं नीचैर्गोत्रं साता ऽसातवेदनीयं हास्य- रती अरति शोकौ स्त्री-पुं-नपुसकरूपं वेदत्रयम् आयुश्चतुष्कमिति । तथा मिथ्यात्वं विना मोहध्रुवबन्धिन्योऽष्टादश । तद्यथाषोडश कषाया भयं जुगुप्सा । निद्राः पञ्च उपघातनाम मिश्रं सम्यक्त्वमिति पञ्चनवतिरध्रुवोदयाः, व्यवच्छिन्नस्याप्युदयस्य पुनरुदयसद्भावादिति । यद्येवं मिथ्यात्वस्याप्यध्रुवोदयतैव युज्यते, सम्यक्त्व प्राप्तौ व्यवच्छिन्नस्यापि तदुदयस्य मिथ्यात्वगमने पुनः सद्भावाद् १ इति, अत्रोच्यतेयासां प्रकृतीनां येषु गुणस्थानकेषु गुणप्रत्ययतोऽद्याप्युदयव्यवच्छेदो न विद्यते, अथ [च] द्रव्यक्षेत्र कालाद्यपेक्षया तेष्वेव गुणस्थानकेषु कदाचिदसौ भवति कदाचिद् नेति ता एवाधुवोदयाः, यथा निद्राया मिथ्यादृष्टेरारभ्य क्षीणमोहं यावदुदयोऽव्यवच्छिन्नो वर्तते, अथ च न सततमसौ भवतीति । मिथ्यात्वस्य तु नेदं लक्षणम्, यतस्तस्य यत्र प्रथमगुणस्थानके नाद्याप्युदयव्यवच्छेदस्तत्र सततोदय एंव न कादाचित्क इति ध्रुवोदयतैव तस्येति । ७।।
उक्तमधुवोदयप्रकृतिद्वारम् | सम्प्रति ध्रुवसत्ताका ऽध्रुवसत्ताकप्रकृतिद्वारद्वयं निरूपयन्नाह
तसवन्नवीस सगतेयकम्म धुवबंधि सेस वेयतिगं । आगिइतिग वेयणियं, दुजुयल सग उरल सास चऊ ||८|| गतिरिदुगनी धुवसता सम्म मोस मणुयदुगं ।
विविकार जिणाऊ, हारसगुच्चा अधुवसंता ॥६॥
इह विंशतिशब्दस्य प्रत्येकं योगात् सविंशतिर्वर्णविंशतिश्च । तत्र त्रसेनोपलक्षिता विंशतिस्त्रसविंशतिः । तथाहि-त्रस - बादर-पर्याप्तक- प्रत्येक स्थिर- शुभ-सुभग-सुस्वरा-ऽऽदेय-यशः-कीर्तिनामेति त्रसदशकम् , स्थावर-सूक्ष्माऽपर्याप्तक-साधारणा ऽस्थिरा ऽशुभ- दुर्भग-दुः स्वराऽनादेया-ऽयशःकीर्तिनामेति स्थावरदशकम् उभयमीलने त्रसविंशतिरियमुच्यते । वर्णविंशतिरियम् - कृष्णनील-लोहित-हरिद्र-सितवर्णभेदात् पश्च वर्णाः, सुरभिगन्धाऽसुरभिगन्धभेदेन द्वौ गन्धौ, तिक्त-कटु
1
,