________________
५-६ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
यदा तु ततः प्रतिपतितः पुनर्बन्धविधानेन सादित्वमासाद्य भूयोऽपि कालान्तरेऽपूर्वकरणमारूढस्य बन्धाभावस्तदा चतुर्थ इति । चतुर्णां प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानकं यावद् अनादिः ततः प्रमत्तादौ बन्धोपरमात् सान्त इति द्वितीयभङ्गः । ततः प्रतिपतितो भूयोऽपि बन्धनेन सादित्वमासाद्य यदा पुनः प्रमत्तादावबन्धको भवति तदा चतुर्थो भङ्गकः । अप्रत्याख्यानावरणानां त्वरितसम्यग्दृष्टिं यावद् अनादिवन्धं कृत्वा यदा देशविरतादावबन्धको भवति तदा द्वितीयः । ततः प्रतिपतितो भूयोऽपि तानेव बद्ध्वा पुनस्तेषां यदा देशविरतेष्वबन्धको भवति तदा चतुर्थ इति । मिथ्यात्व - स्त्यानद्धिंत्रिका ऽनन्तानुबन्धिनां तु मिथ्यादृष्टिरनादिबन्धको यदा सम्यक्त्वावाप्तौ बन्धोपरमं करोति तदा द्वितीयः । पुनर्मिथ्यात्वगमनेन तान् बद्ध्वा यदा भूयोऽपि 'सम्यक्त्वलाभे सति बन्धं न विधत्ते तदा चतुर्थ इति । एवं ध्रुवबन्धिनीनां भङ्गकत्रयं निरूपितमिति । तथा मिथ्यात्वस्य ध्रुवोदयस्य भङ्गा अनाद्यनन्त १ अनादिसान्त २ सादिसान्त३ स्वभावास्त्रयो भवन्ति । तत्रानाद्यनन्तोऽभव्यानाम्, यतस्तेषां न कदाचिद् मिथ्यात्वोदयविच्छेदः समपादि सम्पत्स्यते चेति १ । अनादिसान्तस्त्वनादिमिथ्यादृष्टेः, तत्प्रथमतया सम्यक्त्वलाभे मिथ्यात्वस्याभावात् २ । सादिसान्तः पुनः प्रतिपतितसम्यक्त्वस्य सादिके मिथ्यात्वोदये सम्पन्ने पुनरपि सम्यक्त्वलाभाद् मिथ्यात्वोदयाभावे सम्भवति ३ इति । "दुहा वि अधुवा तुरिंयभंग "त्ति 'द्विधापि' द्विभेदा अपि बन्धमाश्रित्योदयमाश्रित्य च ' अध्रुवा ः ' अध्रुवबन्धिन्योऽध्रुवोदयाश्चेत्यर्थः तुरीयः- चतुर्थो भङ्गः सादिसान्तलक्षणो यासां तास्तुरीयभङ्गा भवन्ति । तत्राध्रुवबन्धिनीनां पूर्वोक्तत्रिसप्ततिसङ्ख्यप्रकृतीनामध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भङ्गको भवति । तथा अध्रुवोदयानामुदयः सह आदिना - उदय विच्छेदे सति तत्प्रथमतयोदय भवनस्वभावेन वर्तत इति सादिः, स चासौ सान्तश्च पुनरुदयव्यवच्छेदात् सपर्यवसानश्च सादिसान्तः । ततश्चाध्रुवोदयानामयमेवैको भङ्गको भवति नान्यः, अध्रुवत्वादेवेति भावः || ५ ||
उक्ताः सभावार्था ध्रुवबन्धिन्योऽध्रुवबन्धिन्यश्च प्रकृतयः । प्रसङ्गतो ध्रुवाऽध्रुवोदयानां प्रकृतीनां भङ्गकाच । सम्प्रति ध्रुवा - ध्रुवोदयप्रकृतिद्वारनिरूपणा याह
निर्मिण थिर अथिर अगुरुय, सुहअसृहं तेय कम्म चउवन्ना | नाणंतराय दंसण, मिच्छं धुवउदय सगवीसा ॥ ६ ॥
" निमिण" त्ति प्राकृतत्वाद् निर्माणं स्थिरा ऽस्थिरम् "अगुरुय" त्ति अगुरुलघु शुभाशुभं तैजसं कार्मणं 'चतुर्वर्ण' वर्ण- गन्ध-रस- स्पर्शलक्षणमित्येता द्वादश नाम्नो ध्रुवोदयाः ज्ञानावरणपञ्चकम् अन्तरायपञ्चकं दर्शनचतुष्कं मिथ्यात्वमिति सप्तविंशतिप्रकृतयः 'ध्रुवोदयाः' नित्योदयाः, सर्वासामपि स्वोदयव्यवच्छेदकालं यावृर्वव्यवच्छिन्नोदयत्वादिति || ६ ||