________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा विंशतिप्रकृतीनां ध्रुवोदयानामभव्यानाश्रित्य वेदितव्यः, यतोऽभव्यानां ध्रुवोदयप्रकृत्यनुदयो न कदाचिद् भविष्यतीति १ । तथा अनादिश्वासौ सान्तश्चानादिसान्तः, तत्र ज्ञानपञ्चका-ऽन्तरायपञ्चक-दर्शनचतुष्करूपाणां चतुर्दशप्रकृतीनामनादिकालात् सन्तानभावेनाऽनादिः सन् यदा क्षीणमोहचरमसमये उदयो व्यवच्छिद्यते तदा अयमनादिसान्तभङ्गाकः, निर्माण-स्थिरा-ऽस्थिराऽ. गुरुलघु-शुभा-ऽशुभ-तैजस-कार्मण-वर्ण चतुष्कलक्षणानां द्वादशानामपि नामध्रुवोदयप्रकृतीनां सततोदयेनाऽनादिरुदयोभृत्वा सयोगिकेवलिचरमसमये यदोदयव्यवच्छेदमनुभवति तदाऽनादिसान्तभङ्गकः २ इति । ध्रुवबन्धिनीषु पूर्वोक्तस्वरूपासु सप्तचत्वारिंशत्सङ्ख्यासु तृतीयवर्ज भङ्गत्रिक १-२-४ भवति । तथाहि-यो बन्धोऽनादिकालादारभ्य सन्तानभावेन सततं प्रवृत्तो न कदाचन व्यवच्छेदमापन्नो न चोत्तरकालं कदाचिद् व्यवच्छेद माप्स्यति सोऽनाद्यनन्तोऽभव्यानामेव भवति १ यस्त्वनादिकालात् सततप्रवृत्तोऽपि पुनर्बन्धव्यवच्छेदं प्राप्स्यति असावनादिसान्तः, अयं भव्यानाम् २ साद्यनन्तलक्षणस्तु तृतीयभङ्गकः शून्य एव, न हि यो बन्धः सादिभवति स कदाचिदनन्तः सम्भवतीति तृतीयभङ्गावजेनम् ३; यः पुनः पूर्व व्यवच्छिन्नः पुनर्बन्धनेन सादित्वमासाद्य कालान्तरे भूयोऽपि व्यवच्छेदं प्राप्स्यति सोऽयं सादिसान्तः ४ इत्येवंस्वरूपं साद्यनन्तलक्षणतृतीयशून्यभङ्गकवर्जितं भङ्गकत्रयं ध्रुवबन्धिनीषु भवति । सूत्रे च
स्त्वं प्राकृतत्वात् , प्राकृते हि लिङ्ग व्यभिचार्यपि, यदाह पाणिनि स्वप्राकृतलक्षणे-“लिङ्ग व्यभिचायपि" इति । तत्र प्रथमभङ्गस्ता(स्त्वा)सां सर्वासामप्यभव्याश्रितः सुप्रतीत एव, ध्रुवबन्धिनीः प्रति तद्वन्धस्यानाद्यनन्तत्वाद् १ इति । द्वितीयभङ्गकस्तु ज्ञानावरणपश्चक-दर्शनावरणचतुष्का-ऽन्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनामनादिकालात् सन्तानभावेनानादिः सन् सूक्ष्मसम्परायचरमसमये यदा बन्धो व्यवच्छिद्यते तदा भवति २ । आसामेव चतुर्दशप्रकृतीनामुपशान्तमोहे यदा अबन्धकत्वमासाद्य आयुःक्षयेणाऽद्धाक्षयेण वा प्रतिपतितः सन् पुनन्धेन सादिबन्धं विधाय भूयोऽपि सूक्ष्मसम्परायचरमसमये बन्धविच्छेदं विधत्ते तदा सादिसान्तलक्षणः [चतुर्थो भङ्गकः]। चतुर्दशानां च प्रकृतीनां तृतीयो भङ्गको न लभ्यते ३ इति । संज्वलनकषायचतुष्कस्य तु सदैवावाप्तानादिबन्धभावो यदा तत्प्रथमतयाऽनिवृत्तिवादरादिर्वन्धव्यवच्छेदं विधत्ते तदाऽनादिसान्तस्वभावस्तस्य द्वितीयभङ्गः । यदा तु ततः प्रतिपतितः पुनर्वन्धेन संज्वलनवन्धं सादिं कृत्वा पुनरपि कालान्तरेऽनिवृत्तिबादरादिभावं प्राप्तः सन् तान् न मन्त्स्यति तदा सादिसान्तस्वरूपः संज्वलनचतुष्कस्य चतुर्थ इति । निद्रा प्रचला-तैजस-कार्मणवर्णचतुष्का-गुरुलघु-उपघात-निर्माण भय-जुगप्सास्वरूपाणां त्रयोदशप्रकृतीनामनादिकालादनादिबन्धं विधाय यदा अपूर्वकरणाद्धायां यथास्थानं वन्धोपरमं करोति तदा द्वितीयो भङ्गकः ।
१ सं० १-२ °माप्स्यते ॥