________________
२-५]
५
शतकनामा पञ्चमः कर्मग्रन्थः। तिर्य-नारकगतिलक्षणाश्चतस्रः, खगतिः-विहायोगतिः-प्रशस्ता ऽप्रशस्तभेदाद् द्वेधा, "पुषि"त्ति पदैकदेशे पदसमुदायोपचाराद् आनुपूर्व्यः देवानुपूर्वी-मनुजानुपूर्वी-तिर्यगानुपूर्वी-नरकानुपूर्वीरूपाश्चतस्रः, जिननाम-तीर्थकरनाम, श्वासनाम उच्छ्वासनामेत्यर्थः, उद्योतनाम आतपनाम पराघातनाम "तसवीस" ति त्रसेनोपलक्षिता विंशतिस्त्रसविंशतिः-त्रसदशकं स्थावरदशकमित्यर्थः; गोत्रम् उच्चैर्गोत्र-नीचैर्गोत्रभेदेन द्विधा, वेदनीयं-सातवेदनीयमसातवेदनीयमिति द्विधा, हास्यादियुगलद्विकं-हास्य-रति-अरति-शोकाभिधम् , वेदाः-स्त्री पुनपुसकरूपास्त्रयः, आयूषि-देवायुमनुजायुस्तिर्यगायुर्नरकायुरिति चत्वारि इति । एतास्त्रिसप्ततिप्रकृतयः 'अध्रुवबन्धाः' अध्रुवबन्धिन्यो भवन्तीति शेषः । एतासां निजहेतुसद्भावेऽप्यवश्यं बन्धाभावादध्रुवबन्धित्वम् । तथाहि-पराघातउच्छ्वासनाम्नः पर्याप्तनाम्नैव सह बन्धो नापर्याप्तनाम्ना अतोऽध्रुवत्वम् । आतपं पुनरेकेन्द्रियप्रायोग्यप्रकृतिसहचरितमेव नान्यदा । उद्योतं तु तियेग्गतिप्रायोग्यबन्धेनैव सह बध्यते । आहारकद्विक जिननाम्नी अपि यथाक्रमं संयम सम्यक्त्वप्रत्ययेनैव बध्येते नान्यथेत्यध्रुवबन्धित्वम् । शेषशरीरोपाङ्गत्रिकादीनां षट्षष्टिप्रकृतीनां सविपक्षत्वाद् निजहेतुसद्भावेऽपि नावश्यं बन्ध इत्यध्रुववन्धित्वं सुप्रतीतमेव । उक्ता अध्रुवबन्धिन्यः प्रकृतयः । साम्प्रतं ध्रुवबन्धिन्यध्रुवन्धिनीनां मङ्गकान् ग्रन्थलाघवार्थ च वक्ष्यमाणध्रुवोदया-ऽध्रुवोदयप्रकृतीनां च भङ्गकान् बन्धमाश्रित्य उदयमाश्रित्य च चिन्तयन्नाह-"भंगा अणाइसाई" इत्यादि । 'भङ्गाः' भङ्गकाश्चत्वारो भवन्ति । कथम् ? इत्याह-अनादि-सादयोऽनन्त-सान्तोत्तराः । इदमुक्तं भवति-अनादि-सादिशब्दौ आदी येषां ते अनादिसादयः, प्राकृतत्वाद् आदिशब्दस्य लोपः । अनन्त-सान्तशब्दावुत्तरे-उत्तरपदे येषा ते अनन्त-सान्तोत्तराः, "ते लुग्वा" - (सिद्ध० ३.२.१०८) इति सूत्रेण पदशब्दस्य लोपः । यदि वा भङ्गा अनादि-सादयोऽनन्त-सान्तोत्तराः सन्तश्चत्वारो भवन्ति । तद्यथा-अनाद्यनन्तः १ अनादिसान्तः २ साद्यनन्तः ३ सादिसान्तः ४ चेति ॥ ३॥ ४ ॥ उक्ता भङ्गाः । अथ यत्रोदये बन्धे वा ये भङ्गका घटन्ते तानाह
पढमविया धुवउदइस, धुवबंधिसु तइयवज मंगतिगं। मिच्छम्मि तिन्नि भंगा, दुहा वि अधुवा तुरियभंगा ॥५॥ 'प्रथमद्वितीयौ' अनाद्यनन्ता-ऽनादिसान्तलक्षणौ ध्रुवोदयासु प्रकृतिषु भङ्गको भवतः । तथाहि-न विद्यत आदिर्यस्याऽनादिकालात् सन्तानभावेन सततप्रवृत्तेः सोऽनादिः, अनादिश्चासौ अनन्तश्च कदाचिदप्यनुदयाभावादनाद्यनन्तः, अयं च भङ्गको निर्माण-स्थिराऽस्थिरा-ऽगुरुलघु-शुभा-ऽशुभ-तैजस-कार्मण-वर्गचतुष्क-ज्ञानपञ्चका-ऽन्तरायपश्चक-दर्शनचतुष्कलक्षणाना षड्
१ छा० •वबन्धित्वम्॥