________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा सम्यकशास्त्रपरिज्ञानाद्विरक्ता भवतो जनाः।
लब्ध्वा दर्शनसंशुद्धि, ते यान्ति परमां गतिम् ॥ तदेतेन मङ्गलाद्यभिधानेन सकलशास्त्रकृतां प्रवृत्तिरनुसृता भवति । तथा च तैः प्रणिजगदे
प्रेक्षावतां प्रवृत्यर्थमभिधेय-प्रयोजने।।
मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥ इति । ॥१॥ अथ "यथोदेशं निर्देशः" इति न्यायात् तत्प्रथमतो ध्रुवबन्धिनीः/ प्रकृतीळचिख्यासुराह
वन्नचउतेयकम्माऽगुरुलहुनिमिणोवघायभयकुच्छा।
मिच्छकसायावरणा, विग्छ धुवपंधि सगचत्ता ॥२॥ , “प्राकृतत्वाद् लिङ्ग-वचनव्यत्ययेन ध्रुवबन्धिन्यः प्रकृतयः “सगचत्त" ति सप्तचत्वारिंशत्सङ्ख्या भवन्ति । तथाहि-वर्णेनोपलक्षितं चतुष्कं वर्णचतुष्क-वर्ण-गन्ध-रस-स्पर्शनलक्षणम् , ततो वर्णचतुष्कं च तैजसं च कार्मणं चागुरुलघु चेत्यादिद्वन्द्वे वर्णचतुष्क-तैजस-कार्मणा-ऽगुरुलघु-निर्माण-उपघात-भय-कुत्साः । कुत्सा-जुगुप्सा । तथा मिथ्यात्वं च कषायाश्चावरणानि च मिथ्यात्व-कषायाऽऽवरणानि । तत्र वर्णचतुष्क-तैजस-कार्मणा-ऽगुरुलघु-निर्माण-उपघातानि इत्येता नव नामप्रकृतयः, भयं कुत्सा मिथ्यात्वं कषायाः षोडश इत्येता एकोनविंशतिर्मोहनीयप्रकृतयः, आवरणानि ज्ञानावरणपञ्चक-दर्शनावरणनवकस्वरूपाणि चतुर्दश, विघ्नम्-अन्तरायं दान-लाभ-भोगउपभोग-वीर्यान्तरायभेदात् पश्चविधमिति । एवं सप्तचत्वारिंशदप्येता ध्रुवबन्धिन्यः, निजहेतुसद्भावेऽवश्यं बन्धसद्भावादिति ॥२॥ .. उक्ता ध्रुवबन्धिन्यः प्रकृतयः । साम्प्रतमध्रुवबन्धिनीः प्रकृतीरभिधित्सुराह- .
तणुवंगाऽऽगिइसंघयणजाइगइखगइ पुग्विजिणसासं । उज्जोयाऽऽयवपरघातसवीसा गोय वेयणियं ॥३॥ हासाइजुयलदुगवेयआउ तेवुत्तरी अधुवबंधा ।।
भंगा अणाइसाई, अणंतसंतुत्तरा चउरो ॥४॥ • तनवः-शरीराणि औदारिक-वैक्रिया-ऽऽहारकलक्षणास्तिस्रः, तेजस-कार्मणयोधू ववन्धित्वेनाभिहितत्वात् , उपाङ्गानि-औदारिकाङ्गोपाङ्ग-वैक्रियाङ्गोपाङ्गा.ऽऽहारकाङ्गोपाङ्गरूपाणि त्रीणि, आकृतयः-संस्थानानि समचतुरस्र-न्यग्रोधपरिमण्डल-सादि-कुब्ज-वामन-हुण्डाख्याः षट् , संहननानिअस्थिनिचयात्मकानि वज्रऋषभनाराच-ऋषभनाराच-नाराचा-ऽर्धनाराच-कीलिका-सेवार्तलक्षणानि षट् , जातयः-एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियरूपाः पञ्च, गतयः--देव-मनुष्य