________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा उक्ताश्चतुर्विधविपाकाः प्रकृतयः । सम्प्रति यदुक्तम् "वुच्छं बंधविह सामी य" (गा०१) इति तन्निर्वाहणार्थ बन्धविधा व्याचिख्यासुराह--"बंधो पयइठिइरसपएस" त्ति, बन्धशब्दस्य प्रत्येकमभिसम्बन्धात् प्रकृतिबन्धः स्थितिवन्धः रसबन्धः प्रदेशबन्धः, 'इति' अमुना प्रकारेण बन्धश्चतुर्धा भवति । तत्र स्थिति-अनुभाग-प्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः। अध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः । कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभागबन्धो रसबन्ध इत्यर्थः। कर्मपुद्गलानामेव यद् ग्रहणं स्थितिरसनिरपेक्षं दलिकसङ्ख्याप्राधान्येनैव करोति स प्रदेशबन्धः । उक्तं च--
'ठिइबंधु दलस्स ठिई, पएसबंधो पएसगहणं जं ।
ताण रसो अणुभागो, तस्समुदाओ पगइबंधो॥ (पञ्चसं० गा० ४३२) अन्यत्राप्युक्तम्--
प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् ।
अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः ॥ ( ) इति ॥ २१॥ । उक्ताः सामान्यतो बन्धभेदाः । अथ मूलप्रकृतिबन्धस्थानानि तेषु च भूयस्कारा-ऽल्पतराऽवस्थिता-ऽवक्तव्यलक्षणान् बन्धभेदविशेषान् निरूपयन्नाह--
मूलपयडीण अउसत्तछेगषं बेसु तिन्नि भूगारा ।
अप्पतरा तिय चउरो, अवटिया न हु अवत्तव्वो ॥२२॥ 'मूलप्रकृतीना' ज्ञानावरण-दर्शनावरण-वेदनीय-मोहनीया-ऽऽयुः-नाम-गोत्र-ऽन्तरायलक्षणानाम् अष्ट-सप्त-षड्-एकबन्धेषु त्रयो भूयस्काराः त्रयोऽल्पतराः चत्वारोऽवस्थितबन्धा भवन्ति, 'न हु' नैव 'अवक्तव्यः' अवक्तव्यबन्धो भवतीत्यक्षरार्थः । भावार्थस्त्वयम्--इह मूलप्रकृतीनां चत्वारि बन्धस्थानानि भवन्ति । तद्यथा-अष्टविधबन्धः सप्तविधवन्धः षड्विधबन्ध एकविधवन्धश्च । सर्वप्रकृतिसमुदायबन्धोऽष्टविधवन्धः । आयुर्वर्जसप्तप्रकृतिबन्धः सप्तविधबन्धः ।आयुर्मोहनीयवर्जपटप्रकृतिवन्धः षड्विधवन्धः । एकस्याः सातवेदनीयलक्षणायाः प्रकृतेबन्ध एकविधबन्धः। ततश्चाऽष्टविध-सप्तविध-पड्विध-एकविधबन्धेषु त्रयो भूयस्कारबन्धाः त्रयोऽल्पतरबन्धाः चत्वारोऽवस्थितबन्धाः, अवक्तव्यबन्धो नास्ति । - तत्र भूयस्कारादीनां स्वरूपमिदम्-तत्रैकविधाद्यल्पतरवन्धको भूत्वा यत्र पुनरपि षड्विधादिबहुबन्धको भवति स प्रथमसमये भूयस्कारवन्धः १। यत्र त्वष्टविधादिबहुबन्धको भृत्वा पुनरपि सप्तविधाद्यल्पतरबन्धको भवति स प्रथमसमय एवाल्पतरबन्धः २ । यत्र तु १ स्थितिबन्धो दलस्य स्थितिः प्रदेशबन्धः प्रदेशग्रहणं यत् । तेषां रसोऽनुमागः तत्समुदायः प्रकृतिबन्धः।।