________________
॥ अहम् ॥
नमः कर्मतत्त्वरहस्यवेदिभ्यः ।
पूज्यश्रीमदेवेन्द्र रिविरचितः स्वोपज्ञटीकोपेतः शतकनामा पञ्चमः कमग्रन्थः ।
___ | ॐ नमः प्रवचनाय ।। यो विश्वविश्वभविनां भवबीजभूतं, कर्मप्रपञ्चमवलोक्य कृपापरीतः । तस्य क्षयाय निजगाद सुदर्शनादिरत्नत्रयं स जयतु प्रभुवर्धमानः ।।१।। अग्रायणीयपूर्वादुद्धत्य परोपकारसारधिया । येनाभ्यधायि शतकः, स जयतु शिवशर्मसूरिवरः ॥ २॥ अनुयोगधरान् सर्वान , धर्माचार्यान् मुनींस्तथा नत्वा । स्वोपज्ञशतकसूत्रं विवृणोमि यथाश्रुतं किञ्चित् ।। ३ ।। तत्रादावेवाभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाहनमिय जिणं धुवबंधो १ दय २ सत्ता ३ घाइ ४ पुन ५ परियत्ता ६ । सेयर १२ चउ हविवागा १६, वुच्छं बंधविह २० सामी २४ य ॥ १ ।
जिनं नत्वा ध्रववन्धिन्यादि वक्ष्य इति सम्बन्धः । तत्र 'नत्वा' नमस्कृत्य, कम् ? इत्याह'जिन' राग-द्वेष-मोहादिदुर्वारवैरिवारजेतारं वीतरागम् , परमार्हन्त्यमहिमालङ्कृतं तीर्थकरमित्यर्थः । अनेन परमाभीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकं भावमङ्गलमाह, अनेन चाऽऽशास्त्रपरिसमाप्तेनिष्प्रत्यूहता भवतीति । क्त्वाप्रत्ययस्य चोत्तरक्रियासापेक्षत्वाद् उत्तरक्रियामाह-ध्रुववन्धोदयादि वक्ष्ये । तत्र मिथ्यात्वादिभिर्वन्धहेतुभिरञ्जनचूर्ण पूर्णसमुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलरात्मनः क्षीर-नीरवद् वह्नि-अयापिण्डवद्वाऽन्योऽन्यानुगमाभेदात्मकः सम्बन्ध बन्धः १ । तेषामेव कर्मपुद्गलानामपवर्तनादिकरणकृते स्वाभाविके वा स्थित्यपचये सति उदयसमयप्राप्तानां विपाकवेदनमुदयः । तेषामेव कर्मपुद्गलानां बन्ध-सङ्कमाभ्यां लब्धात्मलाभाना निर्जरण सङ्क्रमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता ३ । बन्धश्च उदयश्च सच्च बन्धोदयसन्ति, ततो ध्रुवशब्दस्य प्रत्येकं सम्बन्धाद् ध्रुवाणि बन्धोदयसन्ति यासां ता ध्रुवबन्धोदयसत्यः । "घाइ" चि "घातिन्यः, देशघातिन्यः सातिन्यतश्चेत्यर्थः ४ । “पुन्न" ति पुणप्रकृतयः ५।।
१ सं० २ ०त्ति सर्वघाविन्यो देशघातिन्यश्च त्यर्थः । छा० ०त्ति घातिन्यो देश-सर्वघातिन्यः, सर्वघातिन्यो देशघातिन्यश्चत्यर्थः ॥