________________
अथ ग्रन्थकारप्रशस्तिः ।
WERY विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । सूक्ष्मार्थसार्थदेशी, स श्रीवीरो जिनो जयतु ॥१॥ कुन्दोज्ज्वलकीर्तिभरैः, सुरभीकृतसकलविष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतमगणधरः पातु ॥२॥ तदनु सुधर्मस्वामी, जम्बूपभवादयो मुनिवरिष्ठाः। श्रुतजलनिधिपारीणा, भूयांसः श्रेयसे सन्तु ॥३॥ ततः प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । - समभूवन् कुले चान्द्रे, श्रीजगचन्द्रसूरयः ॥४॥ जगज्जनितबोधानां, तेषां शुद्ध चरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः ॥६॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा । षडशीतिकटीकेयं, सुखबोधा विनिर्ममे ॥६॥ विबुधवरधर्मकीर्तिश्रीविद्यानन्दसूरिमुख्यबुधैः । स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥७॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपिशास्त्र। विद्वद्भिस्तत्वज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥८॥ षडशीतिकशास्त्रमिदं, विवृण्वता यन्मयाऽर्जितं सुकृतम्। तेनास्तु भव्यलोकः, सूक्ष्मार्थविचारणाचतुरः ॥९॥ प्रन्थानम् २८०० । सर्वग्रन्थानम् ५६३८ अ. २८ ।।
इति कर्मग्रन्थचतुष्टयात्मकः प्रथमो विभागः ।
wwwww