SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ । - ८३-८६ ] घडशीतिनामा चतुर्थः कर्मग्रन्थः। 00 'एवमुक्कोसयं अणंताणतयं नत्थि । तदत्र तत्त्वं केवलिनो विदन्ति । सूत्रे तु यत्र क्वचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योस्कृष्टशब्दवाच्यमनन्तानन्तकं द्रष्टव्यम् । तदेवं व्याख्यातं सप्रपञ्चं सङ्ख्यातकासङ्ख्यातकानन्तकादिस्वरूपम् , तन्निरूपणे च व्याख्याता "नमिय जिणं जियमग्गण" (गा० १) इत्यादि मौलद्वारगाथा । सम्प्रति षडशीतिसङ्ख्यगाथाप्रमाणत्वेन यथार्थ षरशीतिकशास्त्रं समर्थयन्नाह"इय सुहुमत्थवियारो" इत्यादि । 'इति' पूर्वोक्तप्रकारेण सूक्ष्मः-मन्दमत्यगम्यो योऽर्थःशब्दाभिधेयं तस्य विचारः विचारणं 'लिखितः'-अक्षरविन्यासीकृतः पश्चसङ्ग्रहादिशास्त्रेभ्य इति शेषः । कैः १ इत्याह- देवेन्द्रसूरिभिः' करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमजगधन्द्रमरिक्रमकमलचश्चरीकैरिति ॥८६॥ ॥ इति श्रीदेवेन्द्रसूरिविरचिता स्वोपज्ञषडशीतिकटीका समाप्ता ।। : : . - .. - -- १ एवमुत्कृष्टमनन्तानन्तकं नास्ति । 00.00 एतविहान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नोपलब्धः ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy