________________
३५०
देवेन्द्रसूरिविरचितस्त्रोपाटीकोपेतः
[ गाथा वारान् ‘वर्गयस्व' तावतैव राशिना गुणय । अयमत्रार्थः-जघन्यानन्तानन्तकराशेस्तावतैव राशिना गुणनस्वरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गः, तस्यापि वर्गितराशेभूयोऽपि वर्ग इति । 'तथापि' एवमपि वारत्रयं वर्गे कृतेऽपि तद्' उत्कृष्टमनन्तानन्तकं 'म भवति' न जायते । ततः किं कार्यम् ? इत्याह-अनन्तक्षेपान् ‘इमान्' वक्ष्यमाणस्वरूपान् 'पट्' षट्सङ्खयान् 'क्षिपस्व' निधेहीति ॥ ८४ ॥ तानेव षडनन्तक्षेपानाह
सिद्धा निगोयजीवा, वणस्सई काल पुग्गला चेव ।
सव्वमलोगनहं पुण, तिपग्गिउं केवलदुगम्मि ।। ८५॥ सर्व एव 'सिद्धाः' निष्ठितनिःशेषकर्माणः १ 'निगोदजीवाः' समस्ता अपि सूक्ष्मवादरभेदभिन्ना अनन्तकायिकसच्चाः २ 'वनस्पतयः' प्रत्येकानन्ताः सर्वेऽपि वनस्पतिजीवाः ३ 'काल' इति सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः ४ 'पुद्गलाः समस्तपुद्गलराशेः परमाणवः ५ 'सर्व' समस्तम् 'अलोकनमः' अलोकाकाशमिति उपलक्षणत्वात् सर्वोऽपि लोकालोकप्रदेशराशिः ६ इत्येतद्राशिषट्कप्रक्षेपानन्तरं यस्मिन् कृते यद् भवति तदाह-'पुनः' पुनरपि 'त्रिवर्गयित्वा' त्रीन वारांस्तावतैव राशिना गुणयित्वा 'केवलद्विके' केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति ।।८।।
किम् ? इत्याहखिने गंताणत, हवेइ जिट्ट' तु धवहरइ मज्झ ।
इय सुहुमत्थवियारो, लिहिओ देविंदसीहिं ॥८६॥ ('क्षिप्ते' न्यस्ते सत्यनन्तानन्तकं भवति' जायते 'ज्येष्ठम्' उत्कृष्टम् 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च । 'व्यवहरति' व्यवहारकारि 'मध्य तु' मध्यमं पुनः । इयमत्र भावना-दह केवलज्ञानकेवलदर्शनशब्देन तत्पर्याया उच्यन्ते, ततः केवलज्ञानकेवलदर्शनयोः पर्यायेष्वनन्तेषु क्षिप्तेषु सत्स्विति द्रष्टव्यम् , नवरं ज्ञेयपर्यायाणामानन्त्याद् ज्ञानपर्यायाणामप्यानन्त्यं वेदितव्यम् । एवमनन्तानन्तं ज्येष्ठं भवति, सर्वस्यैव वस्तुजातस्यात्र संगृहीतत्वाद , अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादित्यभिप्रायः ॥ सूत्राभिप्रायतस्त्वित्थमप्यनन्तकमुत्कृष्ट न प्राप्यते, अनन्तकस्वाष्टविधस्यैव तत्र प्रतिपादितत्वात् । तथा चोक्तमनुयोगद्वारेषु