________________
८२-८४]
षडशीतिनामा चतुर्थः कर्मग्रन्थः । "दुण्ह य समाण समय" त्ति 'द्वयोश्च समयोः' उत्सर्पिण्यवसर्पिणीकालस्वरूपयोः समया असङ्खये यस्वरूपाः । "पत्तेयनिगोयए' ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्खथे या भवन्ति । निगोदाः सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासङ्ख्याताः । एवमेते प्रत्येकमसङ्ख्य यस्वरूपा दश क्षेपास्तान् क्षिपस्व ॥८२॥ अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशेर्यस्मिन् विहिते यद् भवति तदाह--
पुण तम्मि ति वग्गियए, परित्तणंत लहु तस्स रासोण ।
अन्भासे लहु जुत्ताणंतं अभव्वजियमाणं ॥ ८३ ।। पुनरपि "तम्मि" त्ति तस्मिन्' अनन्तरोदिते प्रक्षिप्तक्षेपदशके 'त्रिर्वगिते' त्रीन् वारान् कगिते सति परीत्तानन्तं 'लघु' जघन्यं भवति । इदमुक्तं भवति-जघन्यासङ्घय यासङ्घय यकस्वरूपे वारत्रयं वर्गिते राशौ दशैते क्षेपाः क्षिप्यन्ते, तत इत्थं पिण्डितो यो राशिः सम्पद्यते स पुनरपि चारत्रयं वय॑ते ततो जघन्यं परीत्तानन्तकं भवतीति । इदानीं जघन्ययुक्तानन्तकनिरूपणायाह"तस्स रासीण" इत्यादि, 'तस्य' जघन्यपरीत्तानन्तकस्य सम्बन्धिना राशीनामन्योन्यमभ्यासे सति 'लघु' जघन्य युक्तानन्तकमभव्यजीवमानं भवति । इयमत्र भावना-जघन्यपरीत्तानन्तके ये राशयः सपेपरूपास्ते पृथक् पृथग व्यवस्थाप्यन्ते, तेषां तथा व्यवस्थापिताना जघन्यपरीत्तानन्तकमानानां राशीनामन्योन्याभ्यासे सति युक्तानन्तं जघन्यं भवति, तथा जघन्ययुक्तानन्तके यावन्ति रूपाणि वर्तन्त अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टा इति ॥ ८३ ॥ - बघन्यानन्तानन्तकारूपणायाह
तव्वग्गे पुण जायह, जंताणंत लहतं च तिक्खुत्तो।
वग्गसु तह विन तं होह गंतखेवे खिवसुछ इमे ॥ ८४ ।। - तस्य-जघन्ययुक्तानन्तकराशेर्वर्गे-सकृदभ्यासे तद्वर्गे कृते सति 'पुनः' भूयोऽपि 'जायते' सम्पद्यते अनन्तानन्तं 'लघु' जघन्यम् , जघन्यानन्तानन्तकं भवतीत्यर्थः । उत्कृष्टानन्तानन्तकप्ररूपणायाह- "तंच तिक्खुत्तो" इत्यादि । 'तच्च' तत् पुनर्जधन्यमनन्तानन्तं 'विकृत्वः' त्रीन्
३२