________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
रूवूणमाइमं गुरु, ति वग्गिउं तं इमं दस क्खेवे । लोगागासपएसा, धम्माघम्मेगजिग्रदेसा ॥ ८१ ॥ ! तदेव जघन्यासङ्ख्ये यासङ्ख्ये यादिकं 'रूपोनम्' एकेन रूपेण रहितं सद् 'आदिमं' तदपेक्षया आद्यस्य राशेः सम्बन्धि 'गुरु' उत्कृष्ट' भवतीति । अयमत्राशयः - जघन्यासङ्ख्यं यासङ्ख्यं यकं रूपनं सद्युक्तासङ्ख्यातकमुत्कृष्टकं भवति, जघन्यपरीत्तानन्तं रूपोनमसङ्ख्ये यासङ्ख्ये यकमुत्कृष्टं भवति, जघन्ययुक्तानन्तं तु रूपोनमुत्कृष्ट परीत्तानन्तं भवति, जघन्यानन्तानन्तकं तु रूपोनमुत्कृष्टं युक्तानन्तकं भवतीति । अधुना जघन्यपरीत्तानन्तकं मतान्तरेण प्ररूपयन्नाह – “ति वग्गि ं तं" इत्यादि । 'तद्' इति प्रागभिहितं जघन्यासङ्ख्ये ' यासङ्ख्यं यकं 'त्रिर्वर्गयित्वा' सदृशद्विराशी परस्परं त्रीन् वारानभ्यस्येत्यर्थः । अयमत्राशयः - जघन्यासङ्ख्यं यासङ्ख्यं यकराशेः सदृशद्विराशिगुणनलक्षणो वर्गों विधीयते, तस्यापि वर्गराशेः पुनर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनरपि वर्गो निष्पाद्यत इति । ततः किम् ? इत्याह- 'इमान्' वक्ष्यमाणस्वरूपान् 'दश' इति दशसङ्ख्यान् क्षिप्यन्त इति कर्माणि घञि क्षेपाः - प्रक्षेपणीयराशयस्तान् ' क्षिपस्व' निघेहीत्युत्तरगाथायां सम्बन्धः । तथाहि - लोकाकाशस्य प्रदेशाः १ धर्मश्च अधर्मश्व एकजीवश्च धर्माधर्मैकजीवास्तेषां देशाः - प्रदेशाः । अयमत्रार्थः - धर्मास्तिकाय प्रदेशाः २ अधर्मास्तिकाय प्रदेशाः ३ एकजीव प्रदेशाः ४ ॥ ८१ ॥ तथा
२४८
[ गाथा
'ठिइबंध ज्झनसाया, अणुभागा जोगछेयपलिभागा ।
दुह य समाण समया, पत्तेयनिगोगए विसु ॥ ८२ ॥ स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कषायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसङ्ख्यं यान्येव । तथाहि - ज्ञानावरणस्य जघन्योऽन्तमुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु · त्रिंशत्सागरोपम कोटा कोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तमुहूर्तादिको - सङ्ख्ये यभेदः, एषां च स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकमसङ्ख्ये यलोकाकाशप्रदेश प्रमाणानि भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्ख्ये यानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यम् । " अणुभाग" ति 'अनुभागाः' ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्ये यलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् । " जोगछेय पलिभाग" ति योगः - मनोवाक्कायविषयं वीर्यं तस्य केवलप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिमेदभिन्ना असङ्ख्ये या मन्तव्याः ।