________________
८०] - षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
[ २४७ 'ठाणाई जाव उक्कोसयं परित्ताणतयं न पावइ । उक्कोसयं परित्ताणतयं कित्तियं होइ ? जहन्नयं परित्ताणतयं जहन्नयपरित्ताणतयमित्ताणं रासीणं अन्नमनब्भासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहवा जहन्नयं जुत्ताणतयं रूचूणं उक्कोसयं परित्ताणतयं होइ । जहन्नयं जुत्ताणतयं कित्तियं होइ ? जहन्नयं परित्ताणतयं जहन्नयपरित्ताणतयमित्ताणं रासीणं अन्नमनभासो पडिपुन्नो जहन्नयं जुत्ताणतयं होइ, अहवा उक्कोसए परित्ताणतए रूपं पक्खित्तं जहन्नयं जुत्ताणतयं होइ, अभवसिद्धिया वि तत्तिया चेव । तेण परं अजहन्नमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्ताणतयं न पावइ । उक्कोसयं जुत्ताणतयं कित्तियं होइ ? जहन्नएणं जुत्ताणतणं अभवसिद्धिया गुणिया अन्नमन्नब्भासो रूवूणो उक्कोलयं जुत्ताणतयं होइ, अहवा जहमयं अणताणतयं रूवृणं उक्कोमयं जुत्ताणतयं होइ । जहन्नयं अणंताणतयं कित्तियं होइ ? जहन्नएणं । जुत्ताणंतएणं अभवसिद्धिया गुणिया अन्नमनब्भासो पडिपुन्नो जहन्नयं अणंलाणंतयं होइ, अहवा उक्कोसए जुत्ताणंतए रुवं पक्खित्तं जहन्नयं अणंताणतयं होइ । तेण परं अजहन्नमणक्कोसयाई ठाणाई । < एवं उक्कोसयं अणंताणतयं नत्थि > (२३८-१' इति ।
उक्तः सूत्राभिप्रायः । साम्प्रतं मतान्तरगतमसङ्ख्यातानन्तकस्वरूपमाह-"अन्न वग्गिय" इत्यादि । अन्ये आचार्याः-एके सूरय एवमाहुः, यथा-'चतुर्थकमसवय' जघन्ययुक्तासङ्ख्यातकरूपं 'वर्गित तावतैव राशिना गुणितं सत् "एक्कसि" ति एकवारं 'भवति' जायते-सम्पद्यते असङ्ख्यासङ्ख्य ‘लघु' जघन्यम् , जघन्यासङ्ख्यातासङ्खयातकं भवतीत्यर्थः । अत्रापि मते असङ्ख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्वोक्तैवेति दर्शयन्नाह-"रूवजुयं तु तं मज्ज्ञ" ति रूपेणसर्पपलक्षणेन युतं रूपयुतं 'तुः' अवधारणे व्यवहितसम्बन्धश्च 'तद्' इति तदेवानन्तराभिहितं जघन्यासङ्खये यासङ्खये यादिकम् किं भवति ? इत्याह-'मध्यं' मध्यमासङ्खये यासङ्ख्य यादिकं भवति।।८।।
१ स्थानानि यावदुत्कृष्टकं परीत्तानन्तकं न प्राप्नोति । उत्कृष्टकं परीत्तानन्तकं कियद् भवति ? जघन्यकं परीत्तानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकं परीत्तानन्तकं भवति, अथवा जघन्यकं युक्तानन्तकं रूपोनमुत्कृष्टकं परीत्तानन्तकं भवति । जघन्यकं युक्तानन्तकं कियद् भवति ? जघन्यकं परीत्तानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यास: प्रतिपूर्णो जघन्यकं युक्तानन्तकं भवति, अथवोत्कृष्टके परीत्तानन्तके रूपं प्रक्षिप्तं जघन्यकं युक्तानन्तकं भवति, भभवसिद्धिका अपि तावन्त एव । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युक्तानन्तकं न प्राप्नोति । उत्कृष्टकं युक्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनाभवसिद्धिका गुणिता अन्योन्याभ्यासो रूपोनः उत्कृष्टकं युक्तानन्तकं भवति, अथवा जघन्यकमनन्तानन्तकं रूपोनमुत्कृष्टकं युक्तानन्तकं भवति । जघन्यकमनन्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनामवसिद्धिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकमनन्तानन्तकं भवति, अथवोत्कृष्टके युक्तानन्त के रूपं प्रक्षिप्तं जघन्यकमनन्तानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि ! एक्मुत्कृष्टकमनन्तानन्तकं नास्ति । एतचिहनान्वर्गतपाठो मुद्रितानुयोगद्वारेषु नास्ति ।।