________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा "परियत्त" त्ति परिदृत्ताः' परावर्तमानाः६। सेयर" त्ति 'सेतराः' सप्रतिपक्षाः-विपक्षयुक्ता इत्यक्षरार्थः । भावार्थोऽयम्-ध्रुवबन्धिन्यः १ अध्रुवन्धिन्यः २ ध्रुवोदयाः । अध्रुवोदयाः ४ ध्रुवसत्ताकाः ५ अध्रुवसत्ताकाः ६ सर्व देशघातिन्यः ७ अघातिन्यः ८ पुण्यप्रकृतयः ९ पापप्रकृतयः १० परावर्तमानाः ११ अपरावर्तमानाः १२ चेति द्वादश द्वाराणि वक्ष्ये ।
तत्र निजहेतुसद्भावे यासां प्रकृतीनां ध्रुवः-अवश्यम्भावी बन्धो भवति ता ध्रुवबन्धिन्यः १। यासां च निजहेतुसद्भावेऽपि नावश्यम्भावी बन्धस्ता अध्रुवबन्धिन्यः २ । यदवादि
'नियहेउसंभवे वि हु, भयणिज्जो जाण होइ पयडीणं । बंधो ता अधुवाओ, धुवा अभयणिज्जबंधाओ॥(पञ्चसं० गा० १५३) निजहेतवश्चेह मिथ्यात्वादयो मन्तव्याः । यासामव्यवच्छिन्नोऽनुसन्ततः स्वोदयव्यवच्छेदकालं यावदुदयस्ता ध्रुवोदयाः ३ । यासां तु व्यवच्छिन्नोऽप्युदयो भूयोऽपि प्रादुर्भवति तथाविधद्रव्य क्षेत्र-काल-भव-भावस्वरूपं पञ्चविधं हेतुसम्बन्धं प्राप्य ता अध्रुवोदयाः ४ । यदभाणि
अव्वुच्छिन्नो उदओ, जाणं पयडीण ता धुवोदइया । _बुच्छिन्नो वि हु संभवइ, जाण अधुवोदया ताओ ॥ (पञ्चसं० गा० १५५ ) याः सर्वसंसारिणामप्राप्तसम्यक्त्वाद्युत्तरगुणानां सातत्येन भवन्ति ता ध्रुवसत्ताकाः ५। यास्तु कादाचित्कभाविन्यस्ता अध्रुवसत्ताकाः ६ । सर्वेतरघातित्वं च प्रकृतीनां स्वविषयघातनभेदतो भाति । तत्र सर्वस्वविषयघातिन्यः सर्वघातिन्यः, स्वविषयदेशघातिन्यश्च देशघातिन्यः । स्वविषयं चासामुत्तरत्र व्याख्यास्यामः। ततः सर्व-समस्तं देशं च-कश्चन स्वावार्य गुणं घ्नन्तीत्येवंशीलाः सर्व-देशघातिन्यः ७ । ज्ञान दर्शनादिगुणानां मध्ये न कश्चिद् गुणं घ्नन्तीत्येवंशीला अघातिन्यः । केवलं यथा स्वयमतस्करस्वभावोऽपि तस्करैः सह वर्तमानस्तस्कर इव दृश्यते, एवमेता अपि घातिनीभिः सह वेद्यमानास्तद्दोपा इव भवन्ति । यदाहुः श्रीशिव शर्मसूरिप्रवराः
अवसेसा पयडीओ, अघाइया घाइयाहिं पलिभागो। (वृ० शत० गा०८०)
"पलिभागु" त्ति सादृश्यम् । घाव्रत्वं च प्रकृतीनां रसविशेषाद् विज्ञेयम् ८ । पुण्य• प्रकृतयो जीवाह्लादजनिकाः शुभा उच्यन्ते ।। पापप्रकृतयः कटुकरसा अशुभा उच्यन्ते १० ।याः प्रकृतयोऽन्यस्याः प्रकृतेर्बन्धमुदयमुभयं वा विनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ताः
१ निजहेतुसम्भवेऽपि हि मजनीयो यासां भवति प्रकृतीनाम् । बन्धस्ता अध्रु वा ध्रुवाः अमजनीयबन्धाः ॥ २ भव्युच्छिन्न उदयो यासांप्रकृतीनां ता ध्रुवोदयाः, व्युच्छिनोऽपि हि सम्भवति यासांभध्रु वोदयास्ताः॥ ३ अवशेषाः प्रकृतयोऽघातिन्यो घातिनीभिः परिभागः।।