________________
७-८०) षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
[२४५ जघन्यानन्तानन्तकं भवति । आह परीत्तासङ्ख्यातकयुक्तासङ्ख्यातकासङ्ख्यातासङ्ख्यातकपरीत्तानन्तकयुक्तानन्तकानन्तानन्तकलक्षणाः षडपिराशयो जघन्यास्तावनिर्दिष्टाः, मध्यमा उत्कृष्टाश्चैते कथं मन्तव्याः? इत्याह- ते रूवजुया" इत्यादि 'ते' अनन्तरोद्दिष्टा जघन्याः षडपि राशयो रूपेण-एककलक्षणेन युताः-समन्विता रूपयुताः सन्तः किं भवन्ति ? इत्याह-'मध्याः' मध्यमा अजघन्योत्कृष्टा इति यावत् । तत्र यः प्राग्निर्दिष्टो जघन्यपरीत्तासङ्ख्या तकराशिः स एकस्मिन् रूपे प्रक्षिप्ते मध्यमो भवति, उपलक्षणं चैतत् , नैकरूपप्रक्षेप एव मध्यमभणनं किन्त्वेकैकरूपनिक्षेपेऽयं तावद् मध्यमो मन्तव्यो यावद् उत्कृष्टपरीत्तासङ्घ यकराशिन भवतीति । एवमनया दिशा जघन्ययुक्तासङ्ख्यातकादयोऽपि राशय एकैकस्मिन् रूपे निक्षिप्ते मध्यमाः सम्पद्यन्ते, तदनु चैकैकरूपवृद्ध्या तावद् मध्यमा अवसेया यावत् स्वं स्वमुत्कृष्टपदं नासादयन्तीति । तये ते षडपिकिंस्वरूपाः सन्त उत्कृष्टा भवन्ति ? इत्याह-"रूवूण गुरु पच्छ" ति रूपेण-एककलक्षणेन ऊनाः-न्यूना रूपोनाः सन्तस्त एव प्रागभिहिता जघन्याराशयः, तेशब्द आवृत्त्येहापि सम्बन्धनीयः, किं भवन्ति ? इत्याह-'गुरवः' उत्कृष्टाः 'पाश्चात्याः' पश्चिमराशय इत्यर्थः । इयमत्र भावना जघन्ययुक्तासङ्ख्यातकराशिरेकेन रूपेण न्यूनः स एव पाश्चात्य उत्कृष्टपरीत्तासङ्ख्य यकस्वरूपो भवति, जघन्यासङ्ख्यातासङ्ख्यातकराशिस्त्वेकेन रूपेण न्यूनः सन् पाश्चात्य उत्कृष्टयुक्तासङ्ख्यातकस्वरूपो भवति, जघन्यपरीत्तानन्तकराशिः पुनरेकेन रूपेण न्यूनः पाश्चात्य उत्कृष्टासङ्ख्यातासङ्ख्यातकस्वरूपो भवति, जघन्ययुक्तानन्तकराशिस्त्वेकरूपोनः पाश्चात्य उत्कृष्टपरीत्तानन्तकस्वरूपो भवति, जघन्यानन्तानन्तकराशिरेकरूपरहितः पाश्चात्य उत्कृष्टयुक्तानन्तकस्वरूपो भवतीति । इदं चासङ्घय यकानन्तकमेदानामित्थं प्ररूपणमागमाभिप्रायत उक्तं, कैश्चिदन्यथाऽपि चोच्यते ।।७९।। अत्र एवाह
इय मुत्तुत्तं अन्ने, पग्गियमिकसि च उत्थयमसंखं ।
होह असंखासखं, लहु रूवजुयं तु तं मम ॥८॥ 'इति' पूर्वोक्तप्रकारेण यद् असङ्ख्यातकानन्तकस्वरूपं प्रतिपादितं तत् सूत्रे-अनुयोगदारलक्षणे सिद्धान्ते उक्तं-निगदितम् । तथा चोक्तं श्रीअनुयोगद्वारेषु
'उकोसए संखिज्जए रूवं पक्खित्तं जहन्नयं परित्तासंखिज्जयं होइ । तेण परं अजहन्नमणुक्कोसयाइं ठाणाई जाव उक्कोसयं परित्तासंखिज्जयं न पावेइ । उक्कोसयं परित्तासंखिज्जयं कित्तियं होइ १ जहन्नयं परित्तासंखिज्जयं जहन्नयपरित्तासंखिञ्जयमित्ताणं रासीणं अन्नमनभासो रूवृणो
१ उत्कृष्ट के सङ्घय यके रूपं प्रक्षिप्तं जघन्यकं परीत्तासङ्घच यकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टं परीत्तासङ्खये यकं न प्राप्नोति । उत्कृष्टकं परीचासङ्घय यकं कियद् मवति ? जघन्यकं परीत्तासङ्घये यकं जघन्यपरीत्तासङ्ख्य यकमात्राणां राशीनामन्योन्याभ्यासो रूपोन