________________
७७-७६] षडशीतिनामा चतुर्थः कर्मग्रन्थः।
२४३ ___ इत्युक्तं त्रिविधमपि सङ्खये यकम् । इदानीं नवविधमसङ्कथं यकं नवविधमेव चानन्तकं निरुरूपयिषुर्गाथायुगमाह
रूवजुयं तु परित्तांसंखं लहु अस्स रासि भन्भासे ।
जुत्तासंखिज्ज लहु, आवलियासमयपरिमाणं ॥७८ ।। पूर्वोक्तमेवोत्कृष्टं सङ्खये यकं रूपयुतं तु' रूपेण-एकेन सर्पपेण पुनयुक्तं सत् 'लघु' जघन्यं 'परीसासङ्ख्य' परीत्तासङ्घय यकं भवति । इदमत्र हृदयम्-इह येन केन सर्षपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्टसङ्ख्यातकमुक्तं तत्र राशौ तस्यैव रूपस्य निक्षेपो यदा क्रियते तदा तदेवोत्कृष्टं सङ्ख्यातकं जघन्यं परीत्तासङ्ख्यातकं भवतीति । इह च जघन्यपरीत्तासङ्खये यकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्ट भेदारूपगावसरस्तथापि परीत्तयुक्तनिजपदभेदतस्त्रिभेदानामप्यसङ्ख्य यकानां मध्यमो. स्कूटभेदो पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते, अतोऽधुना जघन्ययुक्तासङ्ख्यातकं तावदाह"अस्स रासि अब्भासे” इत्यादि अस्य राशेः-जघन्यपरीत्तासङ्खये यकगतराशेः 'अभ्यासे' परस्परगुणने सति 'लघु' जघन्यं युक्तासङ्ख्य यकं भवति । तच्च 'आवलिकासमयपरिमाणम् ' आवलिका" 'असंखिजाणं समयागं समुदयसमिइसमागमेणं" ( अनुयो० पत्र १७८-२ ) इत्यादिसिद्धान्तप्रसिद्धा तस्याः समयाः निर्विभागाः कालविभागास्तत्परिमाणमावलिकासमयपरिमाणम् , जघन्ययुक्तासङ्खये यकतुल्यसमयराशिप्रमाणा आवलिका इत्यर्थः । एतदुक्तं भवति-जघन्यपरीत्तासङ्ख्य यकसम्बन्धीनि यावन्ति सर्षपल नगानि रूपाणि तान्येकैकशः पृथक पृथक् संस्थाप्य तत एकेकस्मिन रूपेजघन्यपरीत्तासङ्ख्यातकप्रमाणो राशिर्व्यवस्थाप्यते, तेषां च राशीनां परस्परमभ्यासो विधीयते। इहैवं भावना-असत्कल्पनया किल जघन्यपरीत्तासङ्खये यकराशिस्थाने पञ्च रूपाणि कल्प्यन्ते, तानि वित्रियन्ते-जाताःपञ्चैककाः १११११, एककानामधः प्रत्येकं पञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते । तद्यथा-३५५५५ । अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः, साऽपि पञ्चभिराहता जातं पञ्चविंशं शतम् इत्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि ३१२५ । एप कल्पनया तावदेतावन्मात्रो राशिर्भवति, सद्भावतस्त्वसङ्खये यरूपो जघन्ययुक्तासङ्ख्यातकतया मन्तव्य इति ॥ ७८ ॥ निरूपितं जयन्ययुक्तासङ्खये यकम् । सम्प्रति शेषजघन्यासङ्ख्यातासङ्ख्यातकभेदस्य जघन्यपरित्तानन्तकादिस्वरूपाणां त्रयाणां जघन्यानन्तकभेदानां च स्वरूपमतिदेशतः प्रतिपिपादयिषुराह
चितिचउपंचमगुणणे, कमा सगासंख पढमचउसत्त ।
णंता ते स्वजुया, मज्झा रूवूण गुरु पच्छा ॥ ७९ ॥ १ असङ्ख्य यानां समयानां समुदयसमितिसमागमेन ॥