________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[गाथा
•
शलाकापल्यमुत्पाट्य निष्ठितस्थानात् परतः प्रतिद्वीपं प्रतिसमुद्र मे कैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततो महाशलाकापल्ये एका सर्पपरूपा शलाका प्रक्षिप्यते । ततः शलाकापल्यमुत्पाट्य प्रतिशलाकापल्यगतचरमसर्षपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्वपं प्रतिपेद् यावदसौ निष्ठितो भवति, ततः प्रतिशलाकापल्ये प्रतिशलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाटयेत्, उत्पाटय च शलाकापल्यगत चरमसर्पपाक्रान्ताद् द्वीपात् समुद्राद्वा परतो द्वीपसमुद्रेष्वेकैकं सर्षपं प्रक्षिपंस्तावद् गच्छेद् यावदसौ निःशेषतो रिक्तो भवति, ततः शलाकापल्ये प्रथमा शलाका प्रक्षिप्यते, ततोऽनन्तरोक्तानवस्थित पल्यगत चरम सर्वपाक्रान्तो द्वीपः समुद्रो वा यस्तत्पर्यन्तविस्तरात्मकोऽनवस्थितपल्यः कल्पयित्वा सर्षपैरापूर्यते, ततस्तमुत्पाटय ततो निष्ठितस्थानात् परतो द्वीपसमुद्रेष्वेकैकं सर्षपं प्रक्षिपेद् यावदसौ निर्लेपो भवति, ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते, एवं शलाकापल्य आपूरणीयः, एवमापूरणोत्पाटनप्रक्षेपपरम्परया तावद्वक्तव्यं यावन्महाशलाकापल्य प्रतिशलाकापल्यशलाकापल्यानवस्थितपल्याः सर्वेऽपि परिपूर्ण - शिखायुक्ताः समापूरिता भवन्ति । एतदेव निगमयन्नाह - "एवं पढमेहिं" इत्यादि, 'एवम्' अनेन प्रदर्शितक्रमेण 'प्रथमैः' अनवस्थितपत्यैर्द्वितीयमेव द्वितीयकं - शलाकापल्यं 'भरस्व' पूरय, 'तैश्व' द्वितीयस्थानवर्तिभिः शलाकापल्यैः 'तृतीयं प्रतिशलाकापल्यं 'भरस्व' 'तैश्व' प्रतिशलाकापल्यैः 'तुर्य' चतुर्थ 'महाशलाकापल्यं तावद् भरस्व यावत् 'किल' इत्याप्तागमवादसंसूचकः 'स्फुटाः ' व्याप्ताः सशिखा भृता इति यावत् ' चत्वारः' चतुःसङ्ख्या अनवस्थितशलाका प्रतिशलाकामहाशलाकाख्याः पल्या भवन्तीति || ७६ || ततश्चतुर्णां पल्यानां पूर्णत्वे यत् सम्पद्यते तदाहपढमतिपल्लुडरिया, दीवृदही पल्लचउसरिसवाप ।
सव्वो वि एस रासी, रूवूणो परमसंखिज्जं ॥७७॥
२४०
प्रथमम् - आद्यं यत् त्रिपल्यं - पल्यत्रयमनवस्थितशलाकाप्रतिशलाकाख्यं तेनोद्धृताः- एकैकसर्षपप्रक्षेपेण व्याप्ताः प्रथमत्रिपल्योद्धृताः, क एते ? इत्याह- द्वीपोदधयो न केवलं द्वीपोदधयः पल्यचतुष्कसर्पपाथ, किं भवति ? इत्याह- 'सर्वोऽपि ' समस्तोऽपि 'एषः ' अनन्तरोक्तः सर्पपव्याप्तद्वीपसमुद्रपल्यचतुष्कगतसर्षपलक्षणः 'राशि:' सङ्घातः 'रूपोन: ' एकेन सर्पपरूपेण रहितः सन् 'परमसङ्ख्येयम्' उत्कृष्टसङ्ख्यातकं भवतीति । तदेवं तावदिदमुत्कृष्टं सङ्खये यकम् । जघन्यं तु द्वौ जघन्योत्कृष्ट योश्चान्तराले यानि सङ्ख्यास्थानानि तानि सर्वाणि मध्यमं सङ्खये यकमिति सामर्थ्यादुक्तं भवति । सिद्धान्ते च यत्र क्वचित् सङ्ख्यातग्रहणं करोति तत्र सर्वत्रापि मध्यमं सङ्ख्यकं द्रष्टव्यम् । यदुक्तमनुयोगद्वार चूर्णी