________________
२३६
७५-७६]
षडशीतिनामा चतुर्थः कर्मप्रन्थः। पल्यमुत्पाटय ततो निष्ठितस्थानात् परतो द्वीपसमुद्रेष्वेकैकं सर्व प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततस्तृतीया सर्षपरूपा शलाका शलाकापल्ये प्रक्षिप्यते । एवमनेन क्रमेण पुनः पुनरनवस्थितपल्यस्य सर्षपभरणरिक्तीकरणलब्धेकैकसईपरूपाभिः शलाकाभिः शलाकापल्यो यथोक्तप्रमाणः सशिखाकस्तावत् पूरयितव्यो यावत् तत्रेकोऽप्यन्यः सर्पपो न मातीति । "बीओ य" त्ति इत्यत्र चशब्दात् पूर्वपरिपाटयागतोऽनवस्थितपल्यः सषपेरापूरणीयः, ततः किं विधेयम् ? इत्याह"तओ पुव्वं पिव तम्मि उद्धरिए' त्ति 'ततः' शलाकापल्यपूर्वपरिपाट्यांगतानवस्थितपल्यापूरणानन्तरं पूर्ववत् 'तस्मिन्' शलाकापल्ये उद्धृते सति ।।७५।।
वीणे सलाग तइए, एवं पढमेहिं बीययं भरसु ।
तेहि य तइयं तेहि य, तुरियं जा किर फुडा चउरो ॥७६।। __ 'क्षीणे च' निलेपे सति सर्पपरूपा शलाका 'तृतीये' प्रतिशलाकापल्ये प्रक्षिप्यते इतीयमक्षरगमनिका । भावार्थस्त्वयम्-ततः शलाकापल्यापूरणानन्तरं तं शलाकापल्यं वामकरतले कृत्वा पूर्वानवस्थितपल्यचरमसर्पपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततः प्रतिशलाकापल्ये सर्पपरूपा प्रथमा प्रतिशलाका प्रक्षिप्यते । ततोऽनन्तरोक्तोऽनवस्थितपल्य उत्पाटयते, ततः शलाकापल्यसपाक्रान्ताद् द्वीपात समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्पपं प्रक्षिपेद् यावदसौ निःशेषतो रिक्तो भवति । ततः शलाकापल्ये पुनरपि सर्पपरूपा एका शलाका प्रक्षिप्यते । ततोऽनन्तरोक्तानवस्थितपल्यचरमसपाक्रान्तो द्वीपः समुद्रो वा यस्तदन्तमनवस्थितपल्यं सर्षपैभृत्वा ततः परतः पुनरप्येकै सर्षपं प्रतिद्वीपं प्रतिसमुद्रं च प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते । एवमपरापरानवस्थितपल्यापूरणरिक्तीकरणलब्धैकैकसर्पपेर्यदा शलाकापल्य आपूरितो भवति पूर्वपरिपाटया चानवस्थितपल्यस्तदा शलाकापल्यमुत्पाटय प्राक्तनानवस्थितपल्यचरमसपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चेकेकं सषपं प्रक्षिपेद् यावदसौ निलेपो भवति, ततः प्रतिशलाकापल्ये द्वितीया शलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाटयानन्तररिक्तीकृतशलाकापल्यचरमसपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेककं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततः पुनरपि शलाकापल्ये सर्षपरूपा शलाका प्रक्षिप्यते । यत्र चासौ द्वीपे समुद्रे वा निष्ठितस्तावत्प्रमाणविस्तरात्मकमनवस्थितपल्यं सर्पपैरापूर्य ततः परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततः शलाकापल्ये द्वितीया शलाका सर्षपरूपा प्रक्षिप्यते । एवमनेन क्रमेण तावद् वक्तव्यं यावत् त्रयोऽपि प्रतिशलाकापल्यशलाकापल्यानवस्थितपल्याः परिपूर्णमापूरिता भवन्ति । ततः प्रति