________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
'परिही तिलक्ख सोलस, सहस्स दो य सय सत्तावीसहिया ।
कोसतिय अट्ठवीसं, धणुसय तेरंगुलद्ध हियं ।। (बृह० क्षे० गा० ६) इतिगाथाभिहितप्रमाणोपेताः । उक्तं च श्रीमदनुयोगद्वारसूत्रे -
२३६
[ गाथा
" जहन्नयं संखिज्जयं कित्तिल्लियं होइ ? दो रुवाई | तेण परं अजहन्नमणुकोसयाई ठाणाई जाव उक्को सय संखिज्जयं न पावइ । उक्कोसयं संखिज्जयं कित्तियं होइ ? उक्कोसयस्स संखिज्जयस्स परूवणं करिस्सामि - से जहानामए पल्ले सिया एवं जोयणसयसहस्सं आयाम विक्खंभेणं तिनि जोयणसय सहस्साई सोलस सहस्साई दोन्नि य सत्तावीसे जोयणसए तिनि य कोसे अट्ठावीसं च धणुस तेरस अंगुलाई अर्द्धगुलं च किंचि विसेसाहियं परिक्खेवेणं ( पत्र २३५ - १)
ततो जम्बूद्वीपप्रमाणचतुःपल्यप्ररूपणयेदमुत्कृष्टं सङ्ख्यातकं प्ररूपयिष्यत इति भावः ॥ ७२॥ अथैते चत्वारोऽपि पल्याः किंनामान: : इत्येतदाह
1
पल्लवडियस लाग पडिसलाग महासलागक्खा जोयणसहसो गाढा, सवेइयंता संसिहभरिया ॥ ७३ ॥
धान्यपत्य इव पल्याः कल्प्यन्ते, ते च जम्बूद्वीपप्रमाणाः । किंनामानः १ इत्याह- " अणबट्ठिय” इत्यादि । यथोत्तरं वर्धमानस्वभावतयाऽवस्थितरूपाभावाद् अनवस्थित एवोच्यते । तथेह शलाका:- एकैकसर्षपप्रक्षेपलक्षणास्ताभिः शलाकाभिश्रियमाणत्वात् पत्योऽपि शलाका । तथा प्रतिशलाकाभिर्निष्पन्नत्वात् प्रतिशलाका । महाशलाकाभिर्निवृत्तत्वात् महाशलाका । तत एषां द्वन्द्वे ऽनवस्थितशलाकाप्रतिशलाकामहाशलाकास्ता इत्थम्भूता आख्या:- संज्ञा येषां तेऽनवस्थितशलाका प्रतिशलाका महाशलाकाख्याः । त एव विशिष्यन्ते - योजनसहस्रं तु अवगाढाः । इदमुक्तं भवति - रत्नप्रभायाः पृथिव्याः प्रथमं योजन सहस्रप्रमाणं रत्नकाण्डं भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठिता इति । पुनस्त एव विशिष्यन्ते - " सवेइयंत " त्ति वज्रमय्या अष्टयोजनोच्छायायाश्चत्वार्यष्टौ द्वादश योजनान्युपरिमध्याधो विस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पश्चधनुःशतविस्तृतेन नानारत्नमयेन जाल कटकेन परिक्षिप्ता या उपरि वेदिकेति पद्मव रवेदिकेत्यर्थः, द्विगव्यूतोच्छ्रिता पञ्चधनुः शतविस्तीर्णा गवाक्ष हेम किङ्किणीजाल घण्टा युक्ता
१ परिधिस्त्रयो लक्षाः षोडश सहस्राणि द्वे च शते सप्तविंशत्यधिके । क्रोशत्रिकं अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलान्यर्द्धाधिकानि ।। २ जघन्यं सङ्ख्यातकं क्रियद् भवति ? द्वे रूपे । ततः परमजघन्योत्कृष्टानि स्थानानि यावद् उत्कृष्टसङ्ख्यातकं न प्राप्नोति । उत्कृष्टं सङ्ख्यातकं कियद् भषति ? उत्कृष्टस्य सङ्ख्यातकस्य प्ररूपणां करिष्ये- असौ यथानामकः पल्यः स्यात् एकं योजनशतसहस्रम् आयामविष्कम्भाभ्याम्, श्रीणि] योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविंशे योजनशते त्रयश्च क्रोशा अष्टाविंशं च धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद विशेषाधिकं परिक्षेपेण ॥ ३-४ केवइयं अनुयोगद्वारसूत्रे |