________________
७०-७२ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
'त्रिधा ' त्रिप्रकारं वेदितव्यम्, तद्यथा-- परीत्तानन्तकं १ युक्तानन्तकम् २ अनन्तानन्तकम् ३ इति । एवमेतानि समुदितानि / सप्तापि पदानि पुनरेकैकशस्त्रिरूपाणि भवन्तीति दर्शयितुमाह - “जहन्नमज्झुकमा सव्वे" त्ति प्राकृतत्वाल्लिङ्गव्यत्ययाद् 'जघन्य मध्यमोत्कृष्टानि ' जघन्यमध्यमोत्कृष्टभेदभिन्नानि 'सर्वाणि' समस्तानि एकैकशः सप्तापि पदानि वेदितव्यानीत्यर्थः । तथाहि - जघन्यसङ्ख्यं यकं मध्यमसङ्ख्यं यकम् उत्कृष्टसङ्खये यकम् । तथा जघन्यपरीत्तासङ्ख्ये यकं ( मध्यमपरीत्तासङ्घये यकम् उत्कृष्टपरीत्तासङ्ख्ये यकम् । (जघन्ययुक्तासङ्ख्यं यकं मध्यमयुक्तासङ्ख्ये यकम् उत्कृष्टयुक्तासङ्ख्ये युकम् । जघन्यासङ्ख्यातासङ्ख्ये यकं मध्यमासङ्ख्यातासङ्ख्ये यकम् उत्कृष्टासङ्ख्यातासङ्ख्ये यकम् । तथा जघन्यपरीत्तानन्तकं मध्यमपरीत्तानन्तकम् उत्कृष्टपरीत्तानन्तकम् । जघन्ययुक्तानन्तकं मध्यमयुक्तानन्तकम् उत्कृष्टयुक्तानन्तकम् । जघन्यानन्तानन्तकं मध्यमानन्तानन्तकम् उत्कृष्टानन्तानन्तकम् । तदेवं सङ्ख्यातकं त्रिधा असङ्ख्यातमनन्तकं च नवधा भवतीति ॥ ७१ ॥
२३५
तदेवं सङ्खये यकादिभेदप्ररूपणामात्रं कृत्वा विस्तरतस्तत्स्वरूपं निरूपयितुं सङ्ख्यातकं त्रिधेति यदुद्दिष्टं तद् विवृण्वन्नाह-
लहु संखिज्जं दु च्चिय, अओ परं मज्झिमं तु जा गुरुयं । जंबूद्दीवपमाणयचउपल्लपरूवणाह इमं ॥ ७२ ॥
इकको गणनसङ्ख्यां न लभते, यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन । अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद् गणयति, अतोऽसंव्यवहार्यत्वादन्यत्वाद्वा नैको गणनसङ्ख्यं लभते, तस्माद् द्विप्रभृतिरेव गुणनसङ्ख्या । अत एवाह - 'सङ्ख्ये यं' सङ्ख्यातकं 'लघु' जघन्यं - ह्रस्वं चियशब्दस्याऽवधारणार्थत्वात्, यदाहुः श्री हेमचन्द्रसूरिपादाः प्राकृतलक्षणे - "णइ चेअ चिय च अवधारणे" (सि०८-२-१८४) द्वावेव, नैकः, पूर्वोदितयुक्तेः । 'अतः परम्' एतस्माद् द्विकभूतजघन्यसङ्ख्या तकादूर्ध्व मध्यमं तु सङ्ख्यातकं / पुनस्त्रिचतुरादिकमनेकप्रकारं भवति । कियद्दूरं यावद् मध्यमं भवति ? इत्याह – “जा गुरुयं” ति 'यावद्' इत्यवधौ 'गुरुकम्' उत्कृष्टं - सर्वोपरिवत्तिं सङ्ख्यातकं प्राप्नोतीति शेषः । अथेदमेव गुरुकं सङ्ख्यातकं कथं विज्ञेयम् १ इत्याह-- 'इदम् ' अधुनैव वक्ष्यमाणस्त्ररूपं गुरुकं सङ्ख्यातकं ज्ञेयमिति शेषः । कया ? 'जम्बूद्वीपप्रमाणचतुष्पल्यप्ररूपणया' जम्बूनाम्ना वृक्षेणोपलक्षितो द्वीपो जम्बूद्वीपस्तेन जम्बूद्वीपेन प्रमाणम् - इयत्तावधारणं येषां ते जम्बूद्वीपप्रमाणकास्ते च ते चत्वारः - चतुःसङ्ख्याः पल्याच - धान्यपल्या इव जम्बूद्वीपप्रमाणकचतुःपल्यास्तेषां प्रकृष्टरूपा प्ररूपणा - व्यावर्णना तथा । एतदुक्तं भवति - यथा जम्बूद्वीपो लक्षयोजनप्रमाण एवमेतेऽप्यायामविष्कम्भाभ्यां प्रत्येकं लक्षयोजन प्रमाणा वृत्ताकारत्वाच्च परिधिना,