________________
देवेन्द्रसूरिविरचितस्वोपज्ञटीको पैतः
'अविरयसम्मा उवसंतु जाव उवसमगखाइगा सम्मा । अनियट्टीओ उवसंतु जाव उवसामियं चरणं || खीणम्मि खइयसम्मं चरणं च दुगं पि जाण समकालं । नव नव खाइयभावा, जाण सजोगे अजोगे य ॥ जीवत्तमभवत्तं, भव्वत्तं पि हु मुसु मिच्छम्मि | साणाई खीणंते, दोन्निं अभवत् तवज्जा उ II सज्जोगि अजोगिम्मिय, जीवत्तं चैव मिच्छमाईणं । संभावमीलणाओ, भावं मुण सन्निवायं तु ॥
व्याख्यातप्राया एवैताः, नवरमेकादश्यां गाथायाम् " उवसमगखाइगा सम्म " त्ति अनेनौपशमिकक्षायिकसम्यक्त्वरूपमौपशमिकक्षायिक भावभेदद्वयं युगपल्लाघवार्थं निरूपितम् । ततश्चाविरतादारभ्योपशान्तमोहं यावत् कस्यचिदौपशमिकसम्यक्त्वरूप औपशमिकभावभेदः प्राप्यते कस्यचित् पुनः क्षायिकसम्यक्त्वरूपः क्षायिक भावभेदश्चेति ।। ७० ।।
व्याख्यातं मूलद्वारगाथायां भावद्वारम् । सम्प्रति सङ्खये यकादिद्वारं प्रचिकटयिषुराह-संखिज्जेगमसंखं, परित्तजुत्तनियपयजुयं निविहं ।
२३४
[ गाथा
एवमतं पि तिहा, जहन्नम झुकमा सन्ये ॥७१॥
अस
एतावन्त एत इति सङ्ख्यानं सङ्खये यम्, "य एच्चातः " ( सि० ५-१-२८) इति यप्रत्ययः तच्च 'एकम् ' एकमेव भवति, नापरे अये यादेखि परीत्तादयो मूलभेदस्वरूपा भेदा अस्य विद्यन्त इति भावः । न सङ्ख्यामर्हतीत्य सङ्ख्यम्, “दण्डादिभ्यो यः" ( सि० ६-४-१६८) इति यप्रत्ययः, ये यकं तत् पुनः परीत्तं च युक्तं च निजपदं स्वकीयपदमसङ्खये यकलक्षणं तच्च परीत्तयुक्तनिजपदानि तैयुक्तं - समन्वितं सत् किम् ? इत्याह- 'त्रिविधं ' त्रिप्रकारं भवति । यथा परीत्तासङ्ख्यकं १ युक्तासङ्ख्ये यकम् २ असङ्ख्यातासङ्ख्ये यकम् ३ इति उक्तं त्रिधाऽसङ्खये यकम् । अधुना त्रिविधमनन्तकमाह - " एवमतं पि तिह" ति 'एवम्' अनेनानन्तरप्रदर्शितप्रकारेण परीक्तयुक्तनिजपदयुक्तलक्षणेन 'अनन्तमपि ' अनन्तकमपि न केवलमसङ्ख्ये यकमित्यपिशब्दार्थः
१ भविरतसम्यक्त्वादुपशान्तं यावदुपशमकक्षायिके सम्यक्त्वे । अनिवृत्तितः उपशान्तं यावदौपशमिकं चरणम् ॥ क्षीणे क्षायिकसम्यक्त्वं चरणं च द्विकमपि जानीहि समकालम् । नव नव क्षायिकभावान् जानीहि सयोगेऽयोगे च || जीवत्वमभव्यत्वं भव्यत्वमपि खलु जानीहि मिध्यात्वे । सासादनादिषु क्षीणान्तेषु द्वावमव्यत्ववर्जों तु ॥ सयोगिन्ययोगिनि च जीवत्वमेव मिध्यात्वादीनाम् । स्वस्वभावमीलनाद् भावं जानीहि सान्निपातिकं तु । २ सिद्धहेमशब्दानुशासने “ दण्डादेर्यः" इति पाणिनीयसूत्रे तु "दण्डादिभ्यो यत्" इत्येवंरूपं सूत्रम् ॥