________________
२३७
७२-०५ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः । देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतोवनखण्डवती तस्या अन्तः-पर्यवसानमग्रभाग इति यावद् वेदिकान्तः, ततश्च सह वेदिकान्तेन वर्तन्त इति सवेदिकान्ताः। ते च कथं सर्पपैभृताः ? इत्याह-''ससिहभरिय" त्ति सह शिखया-उच्छ्यलक्षणया वर्तन्त इति सशिखाः, ततः सशिखं यथा भवति तथा सर्पभृताः-पूरिताः सशिखभृताः कर्तव्या इति शेषः । अयमत्राशयः-एतेषां व्यावर्णितस्वरूपाणां चतुर्णामपि पल्यानां मध्याद् यो यथावसरं सर्पपैः पूर्यते तं योजनसहस्रावगाहावं समधिकाष्टयोजनोच्छ्रिनवेदिकान्तं पूरयित्वा तदुपरि तावत् शिखा वर्धनीया यावद् एकोऽपि सर्षपो नावतिष्ठत इति । अत्र सर्वे सवेदिकान्ताः सशिखभृताश्च कर्तव्या इति सामान्योक्तावपि प्रथममनवस्थितपल्य एव भृतः करणीयः । शेषास्तु यथावसरमेवेति मन्तव्यमिति ।।७३।।
अधुना तस्यानवस्थितपल्यस्य जम्बूद्वीपप्रमाणस्य सर्षपैभृतस्य यद् विधेयं तदाह
तो दीवुदहिसु इक्किक्क सरिसवं खिविय निहिए पढमे । पढम व तदंतं चिय, पुण भरिए तम्मि तह खीणे ॥ ७४ ।।
ततः' सर्पपभरणादनन्तरमसत्कल्पनया केनचिद् देवेन दानवेन वा वामकरतले धृत्वा 'द्वीपोदधिषु' द्वीपसमुद्रेषु एकैकं सर्पपं' सिद्धार्थ क्षिप्त्वा निष्ठिते' अन्तर्भूतण्यर्थत्वात् निष्ठापितेरिक्तीकृते 'प्रथमे' अनवस्थितपल्ये, कोऽर्थः १ एकं सर्पपं द्वीपे प्रक्षिपति, एकमुदधौ, पुनरप्येकं द्वीपे, एकमुदधौ, एवं प्रतिद्वीपं प्रत्युदधिं चैकैकं सर्पपं प्रतिक्षिपन्नसौ देवो वा दानवो वा तावद् गतो यावदनवस्थितपल्यो निष्ठितो भवति । ततः किं विधेयम् ? इत्याह-"पढमं व" इत्यादि । द्वीपे समुद्रे वा यत्रासावनवस्थितपल्यो निष्ठितो भवति "तदंत चिय" ति स एवानवस्थितपल्यस्य निष्ठाकारी द्वीपः समुद्रो वाऽन्तः पर्यवसानं प्रमाणतया यस्य द्वितीयानवस्थितपल्यस्य स तदन्तस्तम् , द्वितीयानवस्थितपल्यप्रमाणाभिधायकं विशेषणमिदम् , ततस्तदन्तमेव चियशब्दस्यावधारणार्थत्वाद् विस्तीर्णतया तावत्प्रमाणमेवेत्यर्थः । 'प्रथममिव' आद्यपल्यमिवेत्युपमानेन द्वितीयमनवस्थितपल्यमपि सहस्रयोजनावगाढमष्टयोजनोच्छ्रितजगत्युपरिवेदिकोपशोभित सशिखं सर्वपैभृतं कुर्यादिति सूचयति । ततः प्रथमानवस्थितपल्यमिव तदन्तमेव 'पुनः' भूयः 'भृते' सर्वपैः पूरिते 'तस्मिन्' द्वितीयानवस्थितपल्ये 'तथा' तेन प्रकारेण निक्षिप्तचरमसर्षपद्वीपादेरग्रत एका सर्पपो द्वीपे, एकः समुद्रे इत्यादिना 'क्षीणे' निष्ठिते सति द्वितीयानवस्थितपल्ये ॥७॥ ततः किं विधेयम् ? इत्याह
खिप्पड सलागपल्लेगु सरिसवो इय सलागख(खि)वणेणं । पुन्ना बीओ य तओ, पुच्वं पिव तम्मि उद्धरिए ॥७५॥