________________
२३०
देवेन्द्रसूरिविरचितस्त्रोपज्ञटोकोपेतः
[ गाथा
- / अव
पेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यम् । ततश्च अववाङ्ग २५ २६ हुहूका २७ हुहूकं २८ उत्पला २६ उत्पलं ३० पङ्गं ३१ पद्म ३२ नलिनाङ्गं ३३ नलिनं ३४ अर्थनिपूरा ३५ अर्थनिपूरं ३६ अयुताङ्गं ३७ अयुतं ३८ नयुताङ्गं ३९ नयुतं ४० प्रयुता ४१ प्रयुतं ४२ चूलिका ४३ चूलिका ४४ शीर्षप्रहेलिका ४५, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिदमेव 'शर्विप्रहेलिकाङ्गं चतुरशीतिलक्षगुणितं शीर्षप्रहेलिका भवति ४६ । अस्याः स्वरूपमङ्कतोऽपि दर्श्यते- ७ -७५८२६३२५३०७३०१०२४११५७९७३५६६९७५६६६४०६२१८६६६८४८० ८०१८३२९६५ अग्रे चत्वारिंशं शून्यशतम् । तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्नवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति । एतस्माच्च परतोऽपि सङ्ख्ये यः कालोऽस्ति, स स्वनतिशयिनामसंव्यवहार्यत्वात् सर्पपोपमयाऽत्रैव वक्ष्यते । पल्योपमसागरोपमपुद्गलपरावर्तादिकालस्वरूपं पुनः स्वोपज्ञशनकटोकायां सविस्तरमभिहितं तत एवावधारणीयम् ।
ततो धर्मास्तिकाय १ अधर्मास्तिकाय २ आकाशास्तिकाय ३ पुद्गलास्तिकाय ४ काल ५द्रव्याणि 'पारिणामिके' तेन तेन रूपेण परिणमनस्वभावे पर्यायविशेषे वर्तन्त इति शेषः । तथाहि - धर्माधर्माकाशास्तिकायानामनादिकालादारभ्य जीवानां पुद्गलानां च गतिस्थित्युपष्टम्भाकाशदानपरिणामेन परिणतत्वादनादिपारिणामिकभाववर्तित्वम् । कालरूपसमयस्याप्यपरापरसमयोत्पत्तितयाऽऽवलिका दिपरिणामपरिणतत्वादनादिपारिणामिकभाववर्तित्वमेव । द्व्यणुकादिस्कन्धानां सादिकालात् तेन तेन स्वभावेन परिणामात् सादिपारिणामिकत्वं मेर्वादिस्कन्धानां त्वनादिकालात् तेन तेन रूपेण / परिणा मादनादिपारिण | मिकभाववर्तित्वं चेति । आह किं सर्वेऽप्यजीवाः पारिणामिक एवं भावे वर्तन्ते ? आहोश्वित् केचिदन्यस्मिन्नपि १ इत्याह-'" खंधा उद वि" त्ति 'स्कन्धाः ' अनन्तपरमाण्वात्मका न तु केवलाणवः, तेषां जीवेनाऽग्रहणात्, 'औदयिकेऽपि' औदयिकभावेऽपि न केवलं पारिणामिक इत्यपिशब्दार्थः । तथाहि - शरीरादिना - मोदयजनित औदारिकादिशरीरतया औदारिकादीनां स्कन्धानामेवोदय इति भावः । उदय rator इति व्युत्पत्तिपक्षे तु कर्मस्कन्धलक्षणेष्व जीवेष्वौदयिकभावो भवतीति भावः । तथाहि — क्रोधाद्युदये जीवस्य कर्मस्कन्धानामुदयस्तेषामेवौदयिकत्वमिति ।
नन्वेवं कर्मस्कन्धाश्रिता औपशमिकादयोऽपि भावा अर्जीवानां सम्भवन्त्यतस्तेषामपि भणनं प्राप्नोति, सत्यम्, ' तेषामविवक्षितत्वात्, अत एव कैश्चिदजीवानां पारिणामिक एवं भावोऽभ्युपगम्यत इति ॥ ६९ ॥ व्याख्याता अजीवाश्रिता अपि भावाः । सम्प्रति जीवगुणभूतेषु गुणस्थानकेषु भावान् निरुरूपयिषुराह -