________________
२३१
६९-७० ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः । सम्माइचउसु तिग चउ, भावा चउ पणवसामगुवसंते ।
चउ खीणापुवि तिन्नि, सेसगुणट्ठाणगेगजिए॥७०॥ "सम्माइ" त्ति सम्यग्दृष्टयादिषु-अविरतसम्यग्दृष्टिप्रभृतिषु चतुर्यु-चतुःसङ्खये ष्वविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तलक्षणेषु गुणस्थानकेष्विति वक्ष्यमाणपदस्यात्रापि सम्बन्धः कार्यः, "तिग चउ भाव" ति त्रयश्चत्वारो वा भावाः प्राप्यन्त इति भावः । तत्र क्षायोपशमिकसम्यग्दृष्टेश्वतर्वपि गुणस्थानकेष्विमे त्रयोऽपि भावा लभ्यन्ते । तद्यथा-यथासम्भवमौदयिकी गतिः, क्षायोपशमिकमिन्द्रियसम्यक्त्वादि, पारिणामिकं जीवत्वमिति । क्षायिकसम्यग्दृष्टेरोपशमिकसम्यग्दृष्टेश्व चत्वारो भावा लभ्यन्ते, त्रयस्तावत् पूर्वोक्ता एव; चतुर्थस्तु क्षायिकसम्यग्दृष्टेः, क्षायिकसम्यक्त्वलक्षणः, औपशमिकसम्यग्दृष्टेः पुनरौपशमिकसम्यक्त्वस्वभाव इति । "चउ पणुवसामगुवसंते" त्ति चत्वारः पञ्च वा भावा द्वयोरप्युपशमकोपशान्तयोर्भवन्ति । किमुक्तं भवति ?-अनिवृत्तिबादरसूक्ष्मसम्परायलक्षणगुणस्थानकद्वयवर्ती जन्तुरुपशमक उच्यते, तस्य चत्वारः पञ्चवा भावा भवन्ति । कथम् ? इति चेद् , उच्यते-त्रयस्तावत् पूर्ववदेव, चतुर्थस्तु क्षीणदर्शनत्रिकस्य श्रेणिमारोहतः क्षायिकसम्यक्त्वलक्षणोऽन्यस्य पुनरोपशमिकस्वभाव इति । अमीषामेव चतुर्णा मध्येऽनिवृत्तिचादरसूक्ष्मसम्परायगुणस्थानकद्वयवर्तिनोऽप्यौपशमिकचारित्रस्य शास्त्रान्तरेषु प्रतिपादनाद् औपशमिकचारित्रप्रक्षेपे पश्चम इति । 'उपशान्तः' उपशान्तमोहगुणस्थानकवर्ती तस्यापि चत्वारः पञ्च वा भावाः प्राप्यन्ते, ते चानन्तरोपशमकपदप्रदर्शिता एव । "चउ खीणापुधि" ति चत्वारो भावाः 'क्षीणापूर्वयोः क्षीणमोहगुणस्थानकेऽपूर्वकरणगुणस्थानके चेत्यर्थः । तत्र क्षीणमोहे त्रयः पूर्ववत् , चतुर्थः क्षायिकसम्यक्त्वचारित्रलक्षणः, अपूर्वकरणे तु त्रयः पूर्ववत् , चतुर्थः पुनः क्षायिकसम्यक्त्वस्वभाव औपशमिकसम्यक्त्वस्वभावो वेति । "तिन्नि सेसगुणट्ठाणग" त्ति 'त्रयः' त्रिसङ्ख्या भावा भवन्ति, केषु १ इत्याह-विभक्तिलोपात् 'शेषगुणास्थानकेषु' मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिसयोगिकेवल्ययोगिकेवलिलक्षणेषु । तत्र मिथ्यादृष्टयादीनां त्रयाणामौदयिकी गतिः, क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वम् इत्येते त्रयो भावाः प्रतीता एव । सयोगिवेवल्ययोगिकेवलिनोः पुनरौदयिकी मनुजगतिः, क्षायिक केवलज्ञानादि, पारिणामिकं जीवत्वम् इत्येवंरूपास्त्रय इति । आह किममी त्रिप्रभृतयो भावा गुणस्थानकेषु चिन्त्यमानाः सर्वजीवाधारतया चिन्त्यन्ते ? आहोश्विदेकजीवाधारतया ? इत्याह-"एगजिए" ति एकजीवाधारतयेत्थं भावविभागो मन्तव्यः, नानाजीवापेक्षया तु सम्भविनः सर्वेऽपि भावा भवन्तीति ।
* अधुनतेषु गुणस्थानकेषु प्रत्येकं यस्य भावस्य सम्बन्धिनो यावन्त उत्तरभेदा यस्मिन् गुणस्थानके प्राप्यन्त इत्येतत् सोपयोगित्वादस्माभिरभिधीयते। तद्यथा-झायोपशमिकभावभेदा मिथ्या