SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ६२-६५] षडशीतिनामा चतुर्थः कर्मग्रन्थः। - २२३ "खय" ति क्षायिको भावः, "मीस" त्ति क्षायोपशमिको भावः, "उदय" त्ति औदयिको भावः, “परिणाम" त्ति पारिणामिको भावः । तत्रोपशमनमुपशमः-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं स एव तेन वा निवृत्त औपशमिकः । क्षयः-कर्मणोऽत्यन्तोच्छेदः स एव तेन वा निवृत्तः क्षायिकः । क्षयश्च-समुदीर्णस्याभावः उपशमश्च-अनुदीर्णस्य विष्कम्भितोदयत्वं ताभ्यां निवृत्तः क्षायोपशमिकः । उदय:-शुभाशुभप्रकृतीनां विपाकतोऽनुभवनं स एव तेन वा निवृत्त औदयिकः । परि-समन्ताद् नमनं-जीवानामजीवानां च जीवत्वादिस्वरूपानुभवनं प्रति प्रह्वीभवनं परिणामः स एव तेन वा निवृत्तः पारिणामिकः । एतेषामेव यथासङ्ख्य भेदानाह—“दु नव ठार इगवीसा तिय भेय" त्ति द्वौ भेदावौपशमिकस्य १ नव भेदाः क्षायिकस्य २ अष्टादश भेदाः क्षायोपशमिकस्य ३ एकविंशतिर्भेदा औदयिकस्य ४ वयो भेदाः पारिणामिकस्य ५ । “संनिवाइय" त्ति सम्-इति संहतरूपतया नि-इति नियतं पतनं-गमनमेकत्र वर्तनं सन्निपातः, कोऽर्थः ? एषामेव व्यादिसंयोगप्रकारम्तेन निवृत्तः सान्निपातिकः, अयं च षष्ठो भावः ६ । अथ "यथोदेशं निर्देशः" इति न्यायात् औपशमिकादिभावानां व्यादीन् भेदान् प्रचिकटयिपुराह -"सम्मं चरणं पढम भावे" त्ति इह यथासङ्ख्य दर्शनमोहनीयचारित्रमोहनीयकर्मोपशमभूतं सम्यक्त्वं चरणं च 'प्रथम' आद्य 'भावे' औपशमिकलक्षणे भवतीति शेषः । इति निरूपितौ द्वौ भेदावापशमिकभावस्य ॥ ६४ ।। बीए केवलजुयलं, सम्म दाणाइलद्धि पण चरणं । तइए सेसुवओगा, पण लडो सम्म विरइदुगं ।। ६५ ।! 'द्वितीये क्षायिक भावे नव भेदा भवन्ति । तथाहि-'केवलयुगलं केवलज्ञानं केवलदर्शनम् । तत्र केवलज्ञानावरणक्षयभूतत्वेन क्षायिकं केवलज्ञानं १ केवलदर्शनावरणक्षयसम्भूतं क्षायिक केवलदर्शनं २ दर्शनमोहनीयक्षयसमुत्थं क्षायिकं सम्यक्त्वं ३ दानादिलब्धयः पञ्च' दानलामभोगोपभोगवीर्यलक्षणा दानादिरूपपश्चप्रकारान्तरायक्षयोद्भूताः क्षायिक्यः ८ चारित्रमोहनीयक्षयसम्भूतं च क्षायिकं चरणं यथाख्यातसंज्ञितमित्यर्थः । तथा 'तृतीये क्षायोपशमिकभावेऽष्टादश भेदा भवन्ति । तद्यथा-'शेषोपयोगाः' केवलज्ञानकेवलदर्शनव्यतिरिक्ता मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यवज्ञानरूपज्ञानचतुष्टयमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपाज्ञानत्रिकचक्षुःदर्शनाचक्षुर्दर्शनावधिदर्शनलक्षणदर्शनत्रिकस्वरूपा दशोपयोगाः १० "पण लद्धि" ति पदैकदेशे पदसमुदायोपचाराद् दानलाभभोगोपभोगवीर्यलक्षणा लब्धयः पञ्च ५ “सम्म" ति सम्यक्त्वं १ 'विरतिद्विक' देशविरतिसर्वविरतिलक्षणम् २ इत्येतेऽष्टादश भेदाः क्षायोपशमिके भवन्ति । तत्र चत्वारि ज्ञानानि त्रीण्यज्ञानानि ज्ञानावरणीयकर्मक्षयोपशमसम्भूतत्वेन, त्रीणि दर्शनानि
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy