________________
२२४ ] देवेन्द्रसूरिविरचितस्वोपज्ञटोकोपेतः
( गाथा दर्शनावरणक्षयोपशमोद्भूतत्वेन, दानादिपञ्चलब्धयः पञ्चविधान्तरायकर्मक्षयोपशमजन्यत्वेन क्षायोपशमिकभावान्तर्वतिन्य इति । ___ननु दानादिलब्धयः पूर्व क्षायिकभाववर्तिन्य उक्ताः, इह तु क्षायोपशमिक्य इति कथं न विरोधः ? नैतदेवम् , अभिप्रायापरिज्ञानात् । इह दानादिलब्धयो द्विविधा भवन्ति-अन्तरायकर्मणः क्षयसम्भविन्यः क्षयोपशमसम्भविन्यश्च । (तत्र च याः क्षायिक्यः पूर्वमुक्तास्ताः क्षयसम्भूतत्वेन केवलिन एव, याः पुनरिह क्षायोपशमिकान्तर्गता उच्यन्ते ताः क्षयोपशमसम्भूताश्छद्मस्थानामेव । सम्यक्त्वसर्वविरती अपि क्षायोपशमिके अत्र ग्राह्य, ते च यथासङ्ख्य दर्शनमोहनीयचारित्रमोहनीयक्षयोपशमोद्भवत्वेन प्रस्तुतभाव एव वर्तेते इति भावः । देशविरतिरप्यप्रत्याख्यानावरणक्षयोपशमजत्वेन क्षायोपशमिकभावे वर्तत एवेति ।। ६५ ॥
अन्नाणमसिद्धत्तासंजमलेसाकसायगइवेया। मिच्छं तुरिए भव्वाभवत्तजियत्तपरिणामे ।। ६६ ।।
अज्ञानम् १ असिद्धत्वम् २ असंयमः ३ लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्ललेश्याभेदात् षट् । कपायाः-क्रोधमानमायालोभाख्याश्चत्वारः १३ गतिः-नरकतिर्यङ्मनुष्यसुरगतिभेदाच्चतुर्धा १७ वेदाः-स्त्रीपुनपुसकाख्यास्त्रयः २० मिथ्यात्वम् २१ इत्येते एकविंशतिभेदाः 'तुर्ये' चतुर्थे औदयिके भावे भवन्तीत्यक्षरार्थः । भावार्थः पुनरयम्-इहासदध्यवसायात्मकं सज्ज्ञानमप्यज्ञानं तच मिथ्यात्वोदयजमेव । यदभ्यधायि
जह दुव्वयणमवयणं, कुच्छिय सीलं असीलमसईए । भन्नइ तह नाणं पि हु, मिच्छदिहिस्स अन्नाणं ॥ ( विशेषा० गा० ५२०)
असिद्धत्वमपि सिद्धत्वाभावरूपमष्टप्रकारकर्मोदयजमेव । असंयमः-अविरतत्वं तदप्यप्रत्याख्यानावरणोदयाद् जायते । लेश्यास्तु येषां मते कषायनिष्यन्दो लेश्याः तन्मतेन कषायमोहनीयोदयजत्वाद् औदयिक्यः, यन्मतेन तु योगपरिणामो लेश्याः तदभिप्रायेण योगत्रयजनककर्मोदयप्रभवाः, येषां त्वष्टकर्मपरिणामो लेश्यास्तन्मतेन 'संसारित्वासिद्धत्ववद् अष्टप्रकारकर्मोदयजा इति । कपाया:-क्रोधमानमायालोभरूपा मोहनीयकोदयादेव भवन्ति । इह गतयःगतिनामकोंदयादेव नारकत्वतिर्यक्त्वमनुजत्वदेवत्वलक्षणपर्याया जायन्त इति । वेदाः स्त्रीपुनपुसकाख्या नोकषायमोहनीयोदयादेव जायमानाः स्पष्टमौदयिका एवेति । मिथ्यात्वमपि अतत्त्वश्रद्धानरूपं मिथ्यात्वमोहनीयोदयजमेव इत्यौदयिकं प्रतीतमिति ।
१ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः। मण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टरज्ञानम् ।।