________________
२२२ ।
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[गाथा उक्ता गुणस्थानके दीरणास्थानयोजना । सम्प्रति गुणस्थानकेष्वेव वर्तमानानां जन्तूनामल्पत्वबहुत्वमाह-'थेव उवसंत'' त्ति स्ताकाः 'उपशान्ताः' उपशान्तमोहगुणस्थानवर्तिनो जीवाः, यतस्ते प्रतिपद्यमानका उत्कर्षतोऽपि चतुःपञ्चाशत्प्रमाणा एव प्राप्यन्त इति । तेभ्यः सकाशात् क्षीणमोहाः सङ्घय यगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते । एतच्चोत्कृष्टपदापेक्षयोक्तम् अन्यथा कदाचिद् विपर्ययोऽपि द्रष्टव्यः-स्तोकाः क्षीणमोहाः, बहवस्तु तेभ्य उपशान्तमोहाः । तथा तेभ्यः क्षीगमोहेभ्यः सकाशात् सूक्ष्म सम्परायानिवृत्तिबादरापूर्वकरणा विशेषाधिकाः । स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि 'समाः' तुल्या इति ॥६२।।
जोगि अपमत्त इयरे, संखगुणा देससासणामोसा ।
अविरय अजोगिमिच्छा, असंख चउरो दुवे गंता ।। ६३ । तेभ्यः सूक्ष्मादिभ्यः सयोगिकेवलिनः सङ्ख्यातगुणाः, तेषां कोटीपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽप्रमत्ताः सङ्खये यगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्यः "इयरे" त्ति अ. प्रमत्तप्रतियोगिनः प्रमत्ताः सङ्ख्य यगुणाः । प्रमादभावो हि बहूनां बहुकालं च लभ्यते विपर्ययेण त्वप्रमाद इति न यथोक्तसङ्ख्याव्याघातः । “देस" इत्यादि देशविरतसास्वादनमिश्राविरतलक्षणाश्चत्वारो यथोत्तरमसङ्ख्य यगुणाः । अयोगिमिथ्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणो । तत्र प्रमत्तेभ्यो देशविरता असङ्खये यगुणाः, तिरश्चामप्यसङ्ख्यातानां देशविरतिभावात् । सास्वादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा भवन्ति तदा जघन्येनेको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्यसङ्खये यगुणाः । तेभ्योऽपि मिश्रा असङ्ख्य यगुणाः, सास्वादनाद्धाया उत्कर्षतोऽपि षडा. वलिकामात्रतया स्तोकत्वात् , मिश्राद्धायाः पुनरन्तमुहूर्तप्रमाणतया प्रभूतत्वात् । तेभ्योऽप्यसङ्खये - यगुणा अविरतसम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभूततया सर्वकालसम्भवात् । तेभ्योऽप्ययोगिकेवलिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः, साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् तेषां च मिथ्यादृष्टित्वादिति ॥६३।।
। तदेवमभिहितं गुणस्थानवर्तिनां जीवानामल्पबहुत्वम् । इदानीं "नमिय जिणं जियमग्गण" (गा० १) इत्यादि द्वारगाथासूचितं भावद्वारं व्याचिख्यासुराह-- ___उवसमखयमीसोदयपरिणामा दु नव ठार इगवीसा ।
तियभेय सन्निवाइय सम्मं चरणं पढम भावे ॥ ६४॥ इह किल षड् भावा भवन्ति । विशिष्टहेतुभिः स्वतो वा जीवानां तत्तद्रूपतया भवनानि भवन्त्येभिरुपशमादिभिः पर्यायैरिति वा भावाः । किनामानः पुनस्ते ? इत्याह-"उवसमखयमीसोदय' इत्यादि । अत्र सूचकत्वात् सूत्रस्यैवं प्रयोगः, "उवसम" त्ति औपशमिको भावः,