________________
२१३
४७-४९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः। सासणभावे नाणं, विउव्वगाहारगे उरलमिस्सं ।
नेगिंदिसु सासाणो, नेहाहिगयं सुयमयं पि ॥ ४६ ।। 'सासादनभावे'सास्वादनसम्यग्दृष्टित्वे सति ज्ञानं भवति नाज्ञानमिति 'श्रुतमतमपि' सिद्धान्तसम्मतमपि, तथाहि
'वेइंदिया णं भंते ! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि । जे नाणी ते नियमा दुनाणी, आभिणियोहियनाणी सुयनाणी । जे अन्नाणी ते वि नियमा दुअन्नाणी, तं जहा- मइअन्नाणी सुयअन्नाणी । (भ० श० ८ उ० पत्र ३४३-२) ___इत्यादिसूत्र द्वीन्द्रियादीनां ज्ञानित्वमभिहितं तच्च सास्वादनापेक्षयैव, न शेषसम्यक्त्वापेक्षया, असम्भवात् । उक्तं च प्रज्ञापनाटोकायाम्---
'बेइंदियस्स दो नाणा कहं लभंति ? भण्णइ--सासायणं पडुच्च तस्सापज्जत्तयस्स दो नाणा लब्भंति इति ।
ततः सासादनभावेऽपि ज्ञानं सूत्रसम्मतमेव । तच्चेत्थं सूत्रसम्मतमपि नेह प्रकरणेऽधिकृतम् , किन्त्वज्ञानमेव, कर्मग्रन्थाभिप्रायस्यानुसरणात् । तदभिप्रायश्चायम्-सास्वादनस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्य ज्ञानस्यापि मलीमसत्वादज्ञानरूपतेति ।
तथा सूत्रे क्रिये आहारके चारभ्यमाणे तेन प्रारभ्यमाणेन सहौदारिकस्यापि मिश्रीभवनाद् औदारिकमिश्रमुक्तमिति । तथा चाह प्रज्ञापनाटीकाकार:
यदा पुनगैदारिकशरीरी क्रियलब्धिसम्पन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको वा क्रियं करोति तदौदारिकशरीरयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानादाय यावद् वेंक्रियशरीरपर्याप्त्या पर्याप्ति न गच्छति तावद् वैक्रियेण मिश्रता, व्यपदेशश्च औदारिकस्य प्रधानत्वात् ( पद १६ पत्र ३१९-१)।
एवमाहारकेणापि सह मिश्रता द्रष्टव्या, आहारयति चैतेनैवेति तस्यैव व्यपदेश इति । परित्यागकाले वे क्रियस्याहारकस्य च यथाक्रमं वैक्रियमिश्रमाहारकमिश्रं च । उक्तं च श्रीप्रज्ञापनाटीकायाम्
[यदा] आहारकशरीरी भृत्वा कृतकार्यः ? पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वा
१ द्वीन्द्रिया भदन्त ? किं ज्ञानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि। ये ज्ञानिनस्ते नियमाद्वित्रानिनः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनः । येऽज्ञानिनस्तेऽपि नियमाद् व्यज्ञानिनः, तद्यथा--मत्यजानिनः श्रुताज्ञानिनः ॥२ द्वीन्द्रियस्य द्वे ज्ञाने कथं लभ्येते ? भण्यते-सास्वादनं प्रतीय तस्यापर्याप्तकस्य हूँ ज्ञाने लभ्येते ॥