________________
२१४ देवेन्द्रसृरिविरचितस्वोपज्ञटीकोपेतः
[गाथा दौदारिकप्रदेशं प्रति व्यापाराभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौदारिकेण मिश्रतेति आहारकमिश्रशरीरकायप्रयोग इति ।
तच्चैवं वैक्रियाहारकारम्भकाले औदारिकमिश्रं सूत्रेऽभिहितमपि नेह प्रकरणेऽधिकृतं कार्मग्रन्थिकैः, गुणविशेषप्रत्ययसमुत्थलब्धिविशेषकारणतया प्रारम्भकाले परित्यागकाले च बैंक्रियस्याहारकस्य च प्राधान्यविवक्षणेन वेक्रियमिश्रस्याऽऽहारकमिश्रस्य चैवाभिधानात् , तदभिप्रायस्य चेहानुसरणात् । तथा नैकेन्द्रियेषु 'सासाणो" ति भावप्रधानोऽयं निर्देशः, सासादनभावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि ज्ञानित्वमुच्येत, न चोच्यते, किं तु विशेषतः प्रतिषिध्यते । तथाहि--
'एगिदिया णं भंते ! किं नाणी अन्नाणी ? गोयमा ! नो नाणी नियमा अन्नाणी (भ० श. ८ उ० २ पत्र ३४५-२) इति ।
स चेत्थं सासादनभावप्रतिषेधः सूत्रे मतोऽपि केनचित् कारणेन कार्मग्रन्थिकै भ्युपगम्यत इतीहापि प्रकरणे नाधिक्रियते, तदभिप्रायस्यैवेह प्रायोऽनुसरणादिति । "नेहाहिगयं सुयमयं पि" इत्येतद् विभक्तिपरिणामेन प्रतिपदं सम्बन्धनीयम् , तथैव सम्बन्धितमिति ।। ४६ ।।
अधुना गुणस्थानकेष्वेव लेश्या अभिधित्सुराह
छसु सव्वा तेउतिगं, इगि छसु सुक्का अजोगि अल्लेसा । बंधस्स मिच्छअविरहकसायजोग त्ति चउ हेऊ ॥ ५० ॥ 'पट्सु' मिथ्यादृष्टिसासादनमिश्राविरतदेशविरतप्रमत्तलक्षणेषु गुणस्थानकेषु ‘सर्वाः' पडपि कृष्णनीलकापोततेजःपद्मशुक्ललेश्या भवन्ति । 'तेउतिगंइगि" त्ति 'एकस्मिन्' अप्रमत्तगुणस्थानके 'तेजस्त्रिक' तेजःपद्मशुक्ललेश्यात्रयं भवति, न पुनराद्यं लेश्यात्रयमित्यर्थाल्लब्धम् । 'पट्सु' अपूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु शुक्ललेश्या भवति न शेषाः पश्च । 'अयोगिनः' अयोगिकेवलिनः 'अलेश्याः' अपगतलेश्याः । इह लेश्यानां प्रत्येकमसङ्ख्य यानि लोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्टयादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि सम्भवो न विरुध्यत इति ॥ ___ तदेवमुक्ता गुणस्थानकेषु लेश्याः । सम्प्रति बन्धहेतवो वक्तुमवसरप्राप्ताः, ते च मूलभेदतश्चस्वार उत्तरभेदतश्च सप्तपञ्चाशत् , तानुभयथाऽपि प्रचिकटयिपुराह-"बंधस्स मिच्छ" इत्यादि,
१ एकेन्द्रिया भदन्त ! किं ज्ञानिनोऽज्ञानिनः ? गौतम ! नो ज्ञानिनो नियमादज्ञानिनः।।