________________
२१२ ]
देवेन्द्रसूरिविरचितस्त्रोपज्ञटोकोपेतः
कार्मणम् 'औदारिकद्विकम्' औदारिकौदारिक मिश्रलक्षणम् अन्त्यादिममनमी सत्यासत्यमृपरूपौ मनोयोग अन्त्यादिमवचने - सत्यासत्यामृषलक्षण वाग्योगौ चेति सप्त योगाः सयोगिकेवलिनो भवन्ति, कार्मणैौदारिकमिश्रे तु समुद्घातावस्थायामिति । 'न' नैव पञ्चदशयोगमध्यादेकेनापि योगेन युक्तः 'अयोगी' अयोगिकेवली भवति, योगाभावनिबन्धनत्वादयोगित्वावस्थाया इति ॥४७॥ उक्ता गुणस्थानकेषु योगाः | अधुनैतेष्वेवोपयोगानभिधातुकाम आह
- अनाण दुदंसाइमदुगे अजइ देसि नाणदंसतिगं । ते मोसि मीस समणा, जयाइ केवलिदुगंतदुगे ॥ ४८ ॥
गाथा
'आदिमद्विके' मिध्यादृष्टिसास्वादनलक्षणप्रथमद्वितीयगुणस्थानकद्वय इत्यर्थः । “तिअनाण दुदंस" त्ति त्रयाणामज्ञानानां समाहारस्त्र्यज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपं, दर्शनं दर्शा द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाचक्षुर्दर्शनरूपमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनयोर्भवन्ति, न शेषाः सम्यक्त्वविरत्यभावात् । तथा 'अयते' अविरतसम्यग्दृष्टौ 'देशे' देशविरते षडुपयोगा भवन्ति । तथाहि - " नाणदंसतिगं" ति त्रिकशब्दस्य प्रत्येयमभिसम्बन्धाद् ज्ञानत्रिकं मतिज्ञानश्रुतज्ञानावधिज्ञानरूपं दर्शत्रिकं चक्षुर्दर्शना चक्षुदर्शनावधिदर्शनलक्षणमिति, न शेषाः सर्वविरत्यभावात् । 'ते' पूर्वोक्ता ज्ञानत्रिकदर्शन त्रिरूपाः पडुपयोगाः 'मित्रे' सम्यमिथ्यादृष्टिगुणस्थानके 'मिश्रा:' अज्ञानसहिता द्रष्टव्याः तस्योभयदृष्टिपातित्वात्, केवलं कदाचि' त् सम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यम्, कदाचिच्च मिथ्यात्वबाहुल्यतोऽज्ञानबाहुल्यम्, समकक्ष - तायां तूभयांशसमतेति । अस्मिथ गुणस्थानके यद् अवधिदर्शनमुक्तं तत् सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् । " समणा जयाइ " ति "यमू' उपरमे" यमनं यतं - सर्व सावद्यविरतं तद् विद्यते यस्य स यतः- “अभ्रादिभ्यः " ( सि० ७ - २ -- ४६ ) इत्यप्रत्ययः प्रमत्तगुणस्थानकवर्ती साधुः, यत आदिर्येषां गुणस्थानकानां तानि यतादीनि - प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायोपशन्तिमोहक्षीण मोहलक्षणानि सप्त गुणस्थानकानि तेषु पूर्वोक्ता ज्ञानत्रिकदर्शनत्रिकाख्याः षडुपयोगाः " समण "त्ति मनःपर्यायज्ञानसहिताः सप्त भवन्तीति, न शेषाः, मिथ्यात्वघातिकर्मक्षयाभावात् । 'केवलद्विकं' केवलज्ञानकेवलदर्शनलक्षणोपयोगद्वयरूपम् 'अन्तद्विके ' सयोगिकेवल्ययोगिकेवलिलक्षण चरम गुणस्थानकद्वये भवति, न शेपा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवलज्ञान केवल दर्शनोत्पत्तेः, ""नट्ठम्मि उ छाउमन्थिए नाणे " ( आ० नि०मा० ५३६) इति वचनात् ॥ ४८ ॥ तदेवमभिहिता गुणस्थानकेषूपयोगाः । साम्प्रतं यदिह प्रकरणे सूत्राभिमतमपि कार्मग्रन्थकाभिप्रायानुसरणतो नाधिकृतं तद्दर्शयन्नाह-
१ ८त् कस्यचित् सम्य० क० ग घ० । २ नष्ट तु छाद्मस्थि के ज्ञाने ॥