________________
४४.४७ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः
२११ न च मिथ्यादृष्टिसासादनायनानां चतुर्दशपूर्वाधिगमसम्भव इति । तथा 'अपूर्वपञ्चके' अपूर्वकरणानिवृत्तिबादरमूक्ष्मसम्परायोपशान्तमोहलक्षणे नव योगा. भवन्ति । तद्यथा-- चतुर्विधो मनोयोगः ४ चतुर्विधो वाग्योगः ४ औदारिककाययोगः १ इति, न शेषाः, अत्यन्तविशुद्धतया तेषां वैक्रियाहारकद्विकारम्भासम्भवात् , तत्र स्थितानां च स्वभावत एव श्रेण्यारोहाभावात् ।
औदारिकमिश्रमपर्याप्तावस्थायाम् , कार्मणं त्वपान्तरालगती। यद्वा उभे अपि केवलिसमुद्घातावस्थायाम् , ततस्ते अप्यत्र गुणस्थानकपञ्चके न सम्भवत इति । तथा त एव पूर्वोक्ता नव योगाः सवैक्रियाः सन्तो दश योगाः 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थानके भवन्ति । तथाहि-चतुर्विधमनोयोगचतुर्विधवाग्योगोदारिकवैक्रियलक्षणा दश योगा मिश्रे भवन्ति, न शेषाः । तद्यथा-आहारकद्विकस्याऽसम्भवः पूर्वाधिगमासम्भवादेव, कार्मणशरीरं त्वपान्तरालगतो सम्भवति, अस्य च मरणासम्भवेनाऽपान्तरालगत्यसम्भवस्ततस्तस्याप्यसम्भवः । अत एवौदारि'कवे क्रियमिश्रे अपि न सम्भवतः, तयोरपर्याप्तावस्थाभावित्वात् ।
ननु मा भूद् देवनारकसम्बन्धि वैक्रियमिश्रम् , यत् पुनर्मनुष्यतिरश्चां सम्यग्मिथ्यादृशां वैक्रियलब्धिमतां वैक्रियकरण सम्भवेन तदारम्भकाले वैक्रियमिश्र भवति तत् कस्माद् नाभ्युपगम्यते ? उच्यते-तेषां वैक्रियकरणासम्भवादन्यतो वा यतः कुतश्चित् कारणात् पूर्वाचायनाभ्युपगम्यते तन्न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् , एतच्च प्रागेवोक्तमिति । तथा त एव पूर्वोक्ता नव योगाः 'सबैक्रियद्विकाः' वैकियवैक्रियमिश्रसहिताः सन्त एकादश ‘देशे' देशविरते भवन्ति, अम्बडस्येव वैक्रियलब्धिमतो देशविरतस्य वैक्रियारम्भसम्भवादिति ।। ४६ ॥
साहारदुग पमत्ते, ते विउवाहारमीस विणु इयरे ।
कम्मुरलदुगंताइममणवयण सजोगि न अजोगी || ४७ ।। - पूर्वोक्ता एवैकादश योगाश्चतुर्विधमनोयोगचतुर्विधवाग्योगोदारिकर्व क्रियद्विकलक्षणाः ‘साहारकद्विकाः' आहारकाहारकमिश्रसहिताः सन्तस्त्रयोदश योगाः प्रमत्ते भवन्ति । औदारिकमिश्रकार्मणकाययोगाभावस्तु पूक्तियुक्तेरेवावसेय इति । त एव पूर्वोक्तास्त्रयोदश योगा वैक्रियमिश्राहारकमिश्रं विना एकादश 'इतरस्मिन्' अप्रमत्तगुणस्थानके भवन्ति । तथाहि-चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकर्व क्रियाहारकलक्षणा एकादश योगा अप्रमत्ते । यत्तु वैक्रियमिश्रमाहारकमिश्रं च तन्न सम्भवति, तद् वैक्रियस्याहारकस्य च प्रारम्भ काले भवति, तदानीं च लब्ध्युपजीवनादिनोत्सु क्यभावतःप्रमादभावः सम्भवतीति । तथौदारिकमिश्रमपर्याप्तावस्थायाम् , कार्मणं लपान्तरालगतौ। यद्वा उभे अपि केवलिसमुद्घातावस्थायाम् , ततस्ते अप्यत्र गुणस्थानके न सम्भवत इति । तथा
१०कमिश्रवै० क० ग० घ० ॥२० मादिका० क. ग०१०ङ०॥