________________
देवेन्द्रसूरिविरचितस्वोपज्ञटोको पे1:
[ गाथा
ननु च सिद्धेभ्योऽनन्तगुणाः संसारिजीवाः ते च प्राय आहारकाः तत् कथमसङ्ख्यातगुणा अनाहारकेभ्य आहारकाः १ इति, नैष दोषः, यतः प्रतिसमय मेकैकस्य निगोदस्याऽसङ्ख्ये यभागप्रमाणा विग्रहगत्यापन्ना जीवा लभ्यन्ते, ते चानाहारकाः, तत आहारकजीवानामनाहारकजीवापेक्षयाऽसङ्ख्यातगुणत्वमेवेति ।। ४४ ।। चिन्तितं गत्यादिमार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वम् । इदानीं गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाह -
२१०
सव्वजियठाण मिच्छे, सग सासणि पण अपज सन्निदुगं । सम्मे सन्नी दुविहो, सेसेसु सन्निपज्जत्तो ॥। ४५ ।।
सर्वाणि जीवस्थानानि - चतुर्दशापि मिथ्यादृष्टिगुणस्थानके भवन्ति, मिथ्यात्वस्य सर्वेषु जीवस्थानकेषु सम्भवात् । तथा " सग" त्ति सप्त जीवस्थानानि सासादने भवन्ति । तद्यथा- 'पञ्चा पर्याप्ताः 'बादरैकेन्द्रियोऽपर्याप्तः १ द्वीन्द्रियोऽपर्याप्तः स्त्रीन्द्रियोऽपर्याप्तः ३ चतुरिन्द्रियोऽपर्याप्तः ४ असंज्ञिपञ्चेन्द्रियोऽपर्याप्तः ५ 'संज्ञिद्विकम् ' संज्ञी अपर्याप्तः ६ पर्याप्तः ७ । अपर्याप्तकाश्चेह करणापर्याप्तका द्रष्टव्याः, न तु लब्ध्यपर्याप्तकाः तेषु मध्ये सास्वादनसम्यक्त्वसहितस्योत्पादाभावात् । " सम्मे सन्नी दुविहो" त्ति अविरतसम्यग्दृष्टिगुणस्थानके संज्ञी 'द्विविधः' अपर्याप्तपर्याप्तरूप द्रष्टव्यः । इहापर्याप्तकःकरणापेक्षया ज्ञेयो न तु लब्ध्यपेक्षया, लब्ध्यपर्याप्तमध्येऽविरतसम्यग्वष्टेरभावात् । 'शेषेषु मिश्र देशविरत्यादिगुणस्थानकेषु संज्ञी पर्याप्त इत्येकमेव जीवस्थानकम्, न शेषाणि तेषां मिश्रभाव देशविरत्यादिप्रतिपत्यभावात् । न च पूर्वप्रतिपन्नमिश्रभावोऽन्येषु जीवस्थानकेषु सङ्क्रामन् लभ्यते, " "न सम्ममिच्छो कुणइ कालं" इति वचनात् ||४५|| तदेवं गुणस्थानकेषु व्याख्यातानि जीवस्थानकानि । सम्प्रति गुणस्थानकेष्वेव योगान्
व्याख्यानयन्नाह
मिच्छदुग अजह जोगाहारदुगुणा अपुचपणगे उ 1
मणवइउरलं सविउच्च मीसि सविउब्वदुग देसे ॥ ४६ ॥
• मिथ्यादृष्टिद्विकं - मिथ्यादृष्टिसास्वादनलक्षणं तत्र 'अयते' अविरतसम्यग्दृष्टौ चेत्येवं गुणस्थानत्र संज्ञी पञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्ता आहारकद्विकेन- आहारककाययोगाहारकमित्रकाययोगलक्षणेन ऊना :- रहितास्त्रयोदश योगाः सम्भवन्ति । यत् पुनराहारकद्विकं तत् चतुर्दशत्रूणि एव । यदभ्यधायि --
आहारदुर्गं जाय चउदस पुव्विस्स (पश्चसं० गा० १२ ) इति ।
१ न सम्यग्मिथ्यादृष्टिः काउं करोति ।। २ आहारकद्विकं जायते चतुर्दशपूर्विणः ||