________________
४३-४४ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०६
सम्यक्त्वद्वारे- सास्वादन सम्यग्दृष्टयः स्तोकाः, औपशमिकसम्यक्त्वात् केषाञ्चिदेव प्रच्यवमानानां सास्वादनत्वात् । तेभ्यः " उबसम " त्ति औपशमिकसम्यग्दृष्टयः सङ्ख्यातगुणाः ॥ ४३ ॥ मीसा संखा वेग, असखगुण खड्य मिच्छ दु अनंता । सन्नियर थोव तारणहार धोवेयर असंखा ॥ ४४ ॥
तेभ्यश्चौपशमिकसम्यग्दृष्टिभ्यो मिश्राः असङ्ख्यातगुणाः । तेभ्यः “वेयग" त्ति क्षायोपशमिकसम्यग्दृष्टयोऽसङ्ख्यातगुणाः । तेभ्यः क्षायिकसम्यग्दृष्टयोऽनन्तगुणाः, क्षायिकसम्यक्त्ववतां सिद्धानामानन्त्यात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिजीवानामनन्तगुणत्वात् तेषां च मिथ्यादृष्टित्वादिति । संज्ञिद्वारे - संज्ञिनो जीवाः स्तोकाः, देवनारकसमनस्क - पञ्चेन्द्रियतिर्यङ्नराणामेव संज्ञित्वात् । तेभ्यः 'इतरे' असंज्ञिनोऽनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् । यदागमे न्यगादि
,
'एएस णं भंते ! जीवाणं सन्नीणं असन्नीणं नोस नीणं नोअसन्नीण य कयरे कयरेहिंतो नोसन्नीनोअप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा सन्नी, असनी अनंतगुणा, असन्नी अनंतगुणा । ( प्रज्ञा० पद ३ पत्र १३९ - १ )
तथाऽऽहारकद्वारे-अनाहारकाः स्तोकाः, विग्रहगत्यापन्न समुद्घातकेवलिभवस्थायोगिकवलिसिद्धानामेवानाहारकत्वात् । यदाह भाष्यसुधाम्भोधि:---
विग्ग' हगइमावन्ना, केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा, सेसा आहारगा जीवा ||
तेभ्यः 'इतरे' आहारका जीवा असङ्ख्यातगुणाः । यदवाचि वाचंयमप्रवरैः श्रीमदार्यश्यामपादैः---
+----
" एएसि णं भंते! जीवाणं आहारगाणं अणाहारगाण य कयरे कयरेहिंतो अप्पा वा बहुया नातुल्ला वा विसेसाहियावा ? गोयमा ! सव्वत्थोवा जीवा अणाहारगा, आहारगा असंखिज्ज - गुणा । ( प्रज्ञा० पद ३ पत्र १३८ - १ )
१ एतेषां भदन्त ? जीवानां संज्ञिनामसंज्ञिनां नोसंज्ञिनां नोअसंज्ञिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवाः संज्ञिनः, नोमंज्ञिनोअसंज्ञिनोऽनन्तगुणाः, असंज्ञिनोऽनन्तगुणाः || २ नीनोअलन्नीणं प्रज्ञापनायाम् || ३ विग्रहगतिमापन्नाः केवलिनः समुद्धता अयोfree | सिद्धाश्चानाहाराः शेषा आहारका जीवाः || ४ गाथेयं श्रावकप्रज्ञप्ति प्रवचनसारोद्धारश्रीचन्द्रीयसङ्ग्रहणीषु वर्त्तते परं भाष्यकारग्रन्थस्था नोपलब्धा ॥ ५ एतेषां भदन्त ! जीवानां आहारकाणामनाहारकाणां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवा अनाहारकाः, आहारका असङ्घये यगुणाः ॥
२७