________________
२०६ देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा ज्ञानद्वारे-'मनोज्ञानिनः' मनःपर्यायज्ञानिनः शेषज्ञान्यपेक्षया स्तोकाः, तद्धि गर्भजमनुष्याणां तत्रापि संयतानामप्रमत्तानां विविधामपौपध्यादिलब्धियुक्तानामुपजायते । उक्तं च--- 'तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ।
(विशेषा० गा० ८१२ ) इत्यादि । ते च स्तोका एव, सङ्ख्यातत्वात् । तेभ्योऽसङ्ख्य यगुणा अवधिज्ञानिनः, सम्यग्दृष्टिदेवादीनामप्यवधिज्ञानभाजां तेभ्योऽसङ्ख्यातगुणत्वात् । ततोऽवधिज्ञानिभ्यो मतिज्ञानिश्रुतज्ञानिनो विशेषाधिकाः, अवधिज्ञानरहितसम्यग्दृष्टिनरतिर्यप्रक्षेपात् । एतौ च मतिज्ञानिश्रुतज्ञानिनौ स्वस्थाने चिन्त्यमानौ द्वावपि 'समो' तुल्यौ, मतिज्ञानश्रु तज्ञानयोः परस्परमनान्तरीयकत्वात् ।।
यदाह भगवान् देवर्धिवाचकः-- जत्थ मइनाणंतत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं, दो वि एयाई अन्नुन्नमणगयाई ।
(नन्दी पत्र १४०-१) इति । तेभ्यश्च मतिज्ञानिश्रु तज्ञानिभ्यो विभङ्गज्ञानिनोऽसङ्ख्यातगुणाः/मिथ्यादृष्टिसुरादीनां विभङ्गज्ञानवतां तेभ्योऽसङ्ख्यातगुणत्वादिति ।। ४० ।।
केवलिणो णतगुणा, मइसुयअन्नाणि णंतगुण तुल्ला ।
सुहमा थोवा परिहार संख अहखाय संखगुणा || ४१ ॥ तेभ्यश्च विभङ्गज्ञानिभ्यः केवलिनोऽनन्तगुणाः, सिद्धानां तेभ्योऽनन्तगुणत्वात , तेषां चकेवलज्ञानयुक्तत्वात् । तेभ्योऽपि च केवलज्ञानिभ्यो मत्यज्ञानिश्रुताज्ञानिनोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिकायिकानामनन्तगुणत्वात् , तेषां च मिथ्यादृष्टितया मत्यज्ञानश्रुताज्ञानयुक्तत्वात् । एते चोभयेऽपि मत्यज्ञानिश्रुताज्ञानिनः स्वस्थाने चिन्त्यमानास्तुल्याः, मत्यज्ञानश्रुताज्ञानयोः परस्परमविनाभावित्वात् । उक्तं च--
"एएसिणं भंते ! जीवाणं आभिणिबोहियनाणीणं सुयनाणीणं ओहिनाणीणं मणपञ्जवनाणीणं केवलनाणीणं मइअन्नाणीणं सुयअन्नाणीणं विभंगनाणीण य कयरे कयरेहितो अप्पा वा बहुया
१ तत्संयतस्य सर्वप्रमादरहितस्य विविधर्द्धिमतः ॥ २-स्परं नान्तरी ० क० ख० ग० घ० ख० ।। ३ यत्र मतिज्ञानं तत्र श्रुतज्ञानम् । यत्र श्रुतज्ञानं तत्र मतिज्ञानम्, द्वे भपि एते अन्योन्यमनुगते ॥ ४ एतेषां भदन्त ! जीवानां आभिनिबोधिकज्ञानिनां श्रुतज्ञानिनामवधिज्ञानिनां मनःपर्यवज्ञानिनां केवलज्ञानिनां मत्यज्ञानिनां श्रुताज्ञानिनां विमङ्गज्ञानिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्तोका जीवा मनापर्यवज्ञानिनः, अवधिज्ञानिनोऽसङ्खये यगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो द्वयेऽपि तुल्या विशेषाधिकाः, विमङ्गज्ञानिनोऽसङ्ख्येय गुणाः, केवलज्ञानिनोऽनन्तगुणाः, मत्यज्ञानिनः श्रुताज्ञानिनश्च द्वयेऽपि तुल्या अनन्तगुणाः ।।