________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
"तिगुणा तिरुवअहिया, तिरियाणं इत्थिया मुख्यव्वा । सत्तावीसगुणा पुण, मणुयाणं तदहिया चैव ॥ बत्तीस गुणा बत्तीसरूवअहिया उ ह य देवाणं । देवीओ पन्नत्ता, जिणेहिं जियरागदो सेहिं ।। (प्रवच० गा० ८८३-८८४ ) स्त्रीभ्यश्च 'क्लीवा ः ' 'नपुंसका अनन्तगुणाः' अनन्तगुणता च वनस्पत्यपेक्षया द्रष्टव्या । उक्तं चएएसि णं भंते! जीवाणं सवेयगाणं इत्थीवेयगाणं पुरिसवेयगाणं नपुंसकवेयगाणं अवेयगाण य करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा पुरिसवेगा, इत्थीत्रेयगा संखेज्जगुणा, अवेयगा अनंतगुणा, नपुं सगवेयगा अनंतगुणा, सवेयगा विसेसाहिया ॥ प्रज्ञा० पद ३ पत्र १३४-२ ) ॥ ३६ ॥
C
३९-४० ]
२०५
माणी कोही माई, लोही अहिय मणनाणिणो थोवा ।
ओहि असंखा मइसुय, अहिय सम असंख विभंगा ॥ ४० ॥ कपायद्वारे --सर्वस्तोका मानिनः, मानपरिणामकालस्य क्रोधादिपरिणामकालापेक्षया सर्वस्तोकत्वात् । तेभ्यः क्रोधिनो विशेषाधिकाः क्रोधपरिणामकालस्य मानपरिणाम कालापेक्षया विशेषाधिकत्वात् । तेभ्योऽपि मायिनो विशेषाधिकाः, यद् भूयस्त्वेन जन्तूनां प्रभूतकालं च मायाबहुलत्वात् । ततोऽपि लोभिनो विशेषाधिकाः, सर्वेषामपि प्रायः संसारिजीवानां सदा परिग्रहाद्याकाङ्क्षासद्भावात् । उक्तं च
{
'एएसि णं भंते ! जीवाणं सकसाईणं कोहकसाईणं माणकमाईणं मायाकसाईणं लोभकसाई अक्साई य करे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा अकसाई, माणकसाई अनंतगुणा, कोहकसाई विसेसाहिया, मायाकसाई विसेसाहिया, लोभकसाई विसेसाहिया, सकसाई विसेसाहिया । (प्रज्ञा० पद ३ पत्र १३५ -- १)
१ त्रिगुणात्रिरूपाधिकास्तिरश्चां स्त्रियो ज्ञातव्याः । सप्तविंशतिगुणाः पुनर्मनुजानां तदधिका एव 'सप्तविंशत्यधिका एवेत्यर्थः ॥ द्वात्रिंशद्गुणा द्वात्रिंशद्र पाधिकास्तु तथा च देवेभ्यः । देव्यः प्रज्ञप्ता जिनैजितरागदोपैः ॥ २ एतेषां मदन्त ! जीवानां सवेदकानां स्त्रीवेदकानां पुरुषवेदकानां नपुंसक वेद कानामवेदकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवाः पुरुषवेदकाः, स्त्रीवेदकाः सङ्ख्ये यगुणाः, अवेदका अनन्तगुणाः, नपुंसकवेदका अनन्तगुणाः, सवेदका विशेषाधिकाः ॥ ३ एतेषां भदन्त ? जीवानां सकषायिणां क्रोधकषायिणां मानकषायिणां मायाकषायिणां लोभकषायिणां अकषायिणां च कतरे कतरेभ्यः अल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवा अकषायिणः, मानकषायिणोऽनन्तगुणाः, क्रोधकषायिणो विशेषाधिकाः, मायाकषायिणो विशेषाधिकाः, लोभकषायिणो विशेषाधिकाः, सकषायिणो विशेषाधिकाः ॥